________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[३४९ सतोऽप्यभिव्यक्ताद्यतिशयोत्पादनद्वारा सामग्रीजन्यत्वसम्भवात् , अभिव्यक्तादिरूपेण सविशेषणे च हेतावुपादीयमानेऽसिद्धता, नह्यस्माभिरभिव्यक्तादिरूपेणाप्युत्पत्तेः प्राक् कार्यमिष्यते सत् , किं तर्हि ? शक्तिरूपेण, निविशेषणे तु तस्मिन्नु पादीयमानेऽनैकान्तिकता प्रतीयादिति वा, अभिव्यक्त्यादिलक्षणातिशयोत्पादनमुखेन सर्वस्य रूपेण सर्वात्मना सत्त्वमेव हेतुरिति न तस्याऽनैकान्तिकत्वम् , यत्र सर्वात्मनाऽभिव्यक्त्यादिरूपेण सत्त्वं तत्र केनचिजन्यत्वाभावलक्षणसाध्यस्यापि सत्वादित्यत आह- अभिव्यक्त्यादिरूपेणेति। अभिव्यचयादिरूपेण सर्वात्मना कारणे सत्त्वस्य हेतुकरणे तथाभूतस्य हेतोन दध्यादिलक्षणकार्यरूपपक्षे सत्त्वमस्ति, नाभिव्यक्त्यादिरूपेण सर्वात्मना कार्यस्योत्पत्तेः प्राक कारणे सत्त्वं साङ्ख्यैरुपेयत इति स्वरूपासिद्धिरित्याह-- नहीति-अस्य 'इष्यते' इत्यनेनान्वयः। अस्माभिः सायाचार्यः। तर्हि सत्कार्यवादो भवतां कथमुपपद्यत इति पृच्छतिकिं तहीति । उत्तरयति- शक्तिरूपेणेति- उत्पत्तेः पूर्व शक्तिरूपेण कार्य कारणे सदितीष्यते साङ्खौरित्यर्थः । असिद्धिभयाद् 'अभिव्यक्तादिरूपेण इति विशेषणं परित्यज्यैव यत् सर्वात्मना कारणे सद्' इत्येवमेव हेतुरुपादीयते तदा शक्तिरूपेण सत्त्वमादायोक्तहेतुः कार्य समस्ति, अभिध्यत्तयाद्यतिशयोत्पादनत: किश्चिजन्यत्वमप्यस्तीत्यनकान्तिकता वज्रलेपायितेत्याह निर्विशेषणे विति । तस्मिन् हेतौ 'प्रतीयादिति वा' इति स्थाने 'प्रतीयादेव' इति पाठो युक्तः। किञ्चिजन्यत्वे सति अनैकान्तिकता, तत् कथमित्यपेक्षायामाह-अभिव्यक्त्यादिलक्षण तिशयोत्पादनमुखेनेति। असदकरणपक्षेऽसत्त्वाऽविशेषात् सर्वस्य सर्वकार्यत्वप्रसङ्गो भवति, स च सत्करणपक्षे न भवति, यस्यैव यत्र शक्तिरूपेणोत्पत्तेःप्राक् सत्त्वं तस्यैव तत उत्पत्तिः, न च सर्वस्य सर्वत्रोत्पत्तेः प्राक् शक्तिरूपेण सत्त्वमित्याह- सर्वस्येति । सिद्धान्ती 'अभिव्यक्त्यादि.