________________
३४८ ]
[ तत्त्वबोधिनीविवृतिविभूषितम्
कारणे सद् न तत् केनचिज्जन्यं यथा - प्रकृतिश्चैतन्यं वा, तदेव वा - मध्यावस्थायां कार्यम्, सच्च सर्वात्मना परमतेन क्षीरादौ दध्यादीति व्यापक विरुद्धोपलब्धिप्रसङ्गः न च हेतोरनैकान्तिकता, अनुत्पाद्यातिशयस्यापि जन्यत्वे सर्वेषां जन्यत्वप्रसक्तेः, अनभिव्यक्तरूपेण
सामान्यव्याप्तौ तस्य प्रवेश इति बोध्यम् । 'प्रकृतिश्चेतन्यं वा ' इति दृष्टान्तः साङ्ख्याभ्युपगममाश्रित्येव, अतः सर्वानुमतिमाश्रित्य दृष्टान्तमाह- तदेव वा मध्यावस्थायां कार्यमिति - दध्यादिकार्यमेव प्रादुर्भूतदध्याद्यवस्थं न केनचिजन्यं यथा भवतीत्यर्थः । ' यत् सर्वात्मना इत्याद्यु-दाहरणावयवोपन्यासः । ' सच सर्वात्मना इत्याद्युपनयावयवोपन्यासः । परमतेन सत्कार्यवादिसाङ्ख्यमतेन । व्यापक विरुद्धोपलब्धिप्रसङ्ग इति - 'केनचिजन्यं न स्याद्' इति प्रसङ्गे निषेध्यस्य केनचिजन्यत्वस्य व्यापकं कथञ्चिदसत्त्वम् तद्विरुद्धं सर्वात्मना सत्त्वम्, तदुपलब्धिप्रसङ्गःतदुपलब्धिहेतुकः प्रसङ्ग आरोपित व्यापकविरुद्ध हेतुकयाप्यनिषेधप्रसञ्जनमिति यावत् । सर्वात्मना सत्त्वलक्षणहेतुमदपि केनचिज्जन्यमस्त्विति कृत्वा हेतोरनैकान्तिकत्वमाशङ्कय प्रतिक्षिपति-न चेतिअस्य ' वाच्यम्' इति परेण योगः । हेतोः केनचिजन्यत्वाभावसाधकतयोपन्यस्तस्य सर्वात्मना सत्वलक्षणहेतोः । अनेकान्तिकता व्यभि चारिता | सर्वात्मना सत्वं कार्यस्य यदभ्युपगम्यतेऽस्माभिस्तच्छक्तिरूपेण, न तु व्यक्तिरूपेण, तथा चाऽनभिव्यक्तशक्तिरूपेण सर्वात्मना सदवि कार्ये कारणेनाऽभिव्यक्रूयाद्यतिशयोत्पादनतो जन्यं भवतीत्येव सातिशयस्य जन्यत्वमुपेयते, न त्वनुत्पाद्यातिशयस्य जन्यत्वं प्रकृतिचैतन्यादिस्वरूपस्य जन्यत्वापत्तिभियोपेयते, इत्थं च शक्तिरूपेणाऽ नभव्यक्तसर्वात्मना सत्वमस्ति, केनचिज्जन्यत्वमप्यस्तीति केनचिज न्यत्वाभावलक्षणसाध्याभाववति हेतोः सत्वादनैकान्तिकतेत्याहअनुत्पाद्यातिशयस्यापीति । ननु यद् अभिव्यक्त्यादिरूपेण सर्वात्मना कारणे सद्, न तत् केनचिजन्यमित्येवमेवोपेयते, तथा चाभिव्यतयादि
"