________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ ३४७ कार्याणि रस- वीर्य- विपाकादिना विभक्तेन रूपेण सन्ति मध्यावस्थावत्, तदा तेषां किमपरं रूपमुत्पाद्यमवशिष्यते यत् तैर्जन्यं स्यात् ?
विद्यमानमेव कारणायत्तोत्पत्तिकं भवति प्रकृति- चैतन्यरूपवत्, ततः सतः करणासम्भवान्न सत्कार्य मित्यर्थः, प्रयोगश्च यत् सर्वात्मना प्राथमिकः । सदकरणात् सत् कार्ये न भवतीत्येवोपपादयति- यदि हीति । मध्यावस्थावदिति - प्रादुर्भूतदध्याद्यवस्थायां यथा रस- वीर्य-विपा कादिना विभक्तेन रूपेण दध्यादीनि कार्याणि सन्ति तथेत्यर्थः 'दध्याद्यवस्थावद्' इति पाठस्तु स्पष्ट पव । दुग्धादौ यो रसादिस्ततो विजातीयो रसादिः प्रादुर्भूतदध्याद्यवस्थायामुपलभ्यत इति तदानीं दुग्धादिगतरसादिविजातीयरसादिमद् दध्यादिकं समस्ति तादृशमेव दध्यादिकं दुग्धाद्यवस्थायामपि यदि समस्ति तदा नाऽन्यद्रूपमुत्पाद्यं तस्यावशिष्टमस्तीति व्यर्थ एव तत्र कारणव्यापारः स्यादित्याह- तदेति । तेषां दध्यादीनाम् । यद् अवशिष्टं रूपम् । तैः कारणैः, सत्कार्यवादे च सर्वमपि रूपं दध्यादीनां पूर्वमप्यस्त्येवेत्यवशिष्ट. रूपाभावान्न किञ्चित् कारणैर्जन्यं भवेदित्यर्थः । विद्यमानमेव भवतु कारणाधीनम्, तत्रैवं कारणव्यापारः सफलः स्यादित्यत आहनहीति - अस्य ' भवति' इत्यनेनान्वयः । विद्यमानं कारणायत्तोत्पत्तिकं न भवतीत्यत्र दृष्टान्तमाह- प्रकृति- चैतन्यरूपवदिति - यथा प्रकृतिस्वरूपं चैतन्यस्वरूपं च सर्वदा विद्यमानं न कारणायत्तोत्पत्तिकं तथेत्यर्थः । उपसंहरति-तत इति विद्यमानस्य कारणाय होत्पत्तिकत्वाभावादित्यर्थः । 'असदकरणाद्' इत्याद्यहेतुप्रभवानुमानस्य प्रयोगमुपदर्शयति - प्रयोगश्चेति यद्यपि 'यत् सर्वात्मना सत् तन्न केनचिजन्यम्' इति सामान्यव्याप्तावेव ' यथा प्रकृतिश्चैतन्यं वा' इति दृष्टान्तस्य सङ्गतिः, न तु 'यत् सर्वात्मना कारणे सद्' इत्यादिव्याप्तौ प्रकृति- चैतन्ययोः कारणस्यैवाभावेन ' यत् सर्वात्मना कारणे सद्' इत्यस्य तत्राघटमानत्वात्, तथापि ' कारणे' इति प्रकृतकार्याभिप्रायेणोक्तिर्न तु