________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ ३६१ मिथ्याज्ञानवशाच तैर्बन्ध इष्यते, तस्य च सर्वदा व्यवस्थितत्वात् सर्वेषां बद्धत्वमिति कुतो मोक्षः । नित्यमुक्त एवात्मा कण्ठगत. चामीकरन्यायेनाप्राप्तिभ्रमादेव तदर्थ प्रवृत्तिरित्यपि दुर्वचनम् , प्राप्तेः सत्त्वेप्राप्तिभ्रमायोगात् , असत्वे चानुत्पत्तेः।
यदपि भेदानामन्वयदर्शनात् प्रधानास्तित्वमुक्तम् , तत्रापि हेतोरसिद्धत्वं पर्यायास्तिकनयानुसारिण उद्भावयन्ति, तथाहि-नहि मिथ्याज्ञानवशाच्चेति। तैः साङ्ख्यैः। तस्य च मिथ्याज्ञानस्य पुनः । आत्मनो नित्यमुक्तत्वेऽपि तदर्थप्रवृत्तौ साङ्ख्यानां भूलयुक्ति मुपन्यस्याएहस्तयति- नित्यमुक्त एवात्मेति। कण्ठगतेति- यथा कस्य - चित् पुंसः कण्ठे सुवर्ण विद्यत एव, परं भ्रान्त्या तनावगच्छति, प्रत्युताप्राप्तं सुवर्णमवगच्छति यावत् तावत् तत्प्राप्त्यर्थ यतते, यदा तु तव कण्ठे विद्यत एव सुवर्ण मुधा तदर्थ भ्रमसीति कस्यचिदाप्तस्योपदेशं शृणोति तदा प्राप्तं तदवगत्य तत्प्राप्तिप्रयत्नानि. वर्तते, एवमात्मा सर्वदा मुक्तो यावत् तं भ्रान्त्या तथा नावगच्छति तावत् तन्मुक्त्यर्थ प्रवर्तते, तत्त्वज्ञाने च सति तदप्राप्तिभ्रमनिवृत्त्या तत्र शिथिलयत्नो भवतीत्येतदपि सावयस्य वचनं दुर्वचनमित्यर्थः। प्राप्तेः मोक्षप्राप्तेः । सत्त्वे सद्भावे । अप्राप्तिभ्रमायोगादिति- मुक्तो हि तत्त्वज्ञानवानेव भवति, तत्त्वज्ञानं च भ्रमविरोधीति तद्रूपप्रतिबन्ध. कसद्भावान्मया मुक्तत्वं न प्राप्तमिति भ्रमस्याऽसम्भवादित्यर्थः । असत्त्वे चानुत्पत्तेरिति- नित्यमुक्तत्वप्राप्तेरसत्वे च सत्कार्यवादिमते चासत उत्पत्तिन भवतीत्यसत्यानित्यमुक्तत्वप्राप्तेरनुत्पत्तरुत्पत्त्यसम्भवादित्यर्थः ।
प्रधानसद्भावसाधकं युत्तिकदम्बकमपि साङ्ख्यस्यायुक्तमित्यावेदयितुमाह- यदपीति । उक्तं " भेदानां परिमाणात् समन्वयाच्छक्तितः प्रवृत्तेश्च० " [ ]इत्यनया कारिकयोपदर्शितम् । तत्रापि तदुक्तावपि। हेतोः 'अन्वयदर्शनाद्' इत्यस्य प्रधानास्तित्वसाधकस्य ।