Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 421
________________ ३५८ ] [ तत्त्वबोधिनीविवृतिविभूषितम् __इति चेत् ? न-अवधीनामनिष्पत्ती क्षीरस्य दध्युत्पादने शक्तिरिति व्यपदेशासम्भवेऽप्यनारोपित सर्वोपाधिनिरपेक्षं प्रतिनियतकार्यजनकं यद् वस्तुस्वरूपं यदनन्तरं पूर्वमदृष्टं वस्त्वन्तरं प्रादुर्भवद् दृश्यते तत्प्रतिषेधस्य कर्तुमशक्यत्वात् । न च शब्दविकल्पानां यत्र ननु निश्चयेन । सावधिको नियमः एतनिरूपिता शक्तिरस्मिन्नेवेति नियमः। युक्तः युक्त्या घटते । __ अवध्यनिष्पत्तौ तन्निरूपितवस्तुव्यवहारस्याऽसम्भवेऽपि तद्वस्तुतो जायमानं कार्य प्रतिषेढुं न शक्यते, कार्य प्रति यद् वस्तुनः कारणत्वं तद स्वरूपत एव, न तु तन्निरूपितकारणतयाऽवगतत्वेनेत्यसदपि कार्य कारणतो जायमानमुपलब्धिगोचरत्वात् स्वीकरणीयमेवेति समाधत्ते- नेति । कीदृशं वस्तुस्वरूपमित्यपेक्षायामाह- यदनन्तरमिति। तत्प्रतिषेधस्य असत्कार्यकारणवस्तुस्वरूप. प्रतिषेधस्य। अस्येदं कारणमस्येदं कार्यमित्येवं शब्दप्रयोगो विकल्पो वा मा जायताम् , नैतावता कारणीभूतवस्तुनः कार्याभूतवस्तुनश्च स्वभावो निवर्तत इत्याह- 'न च' इति- अस्य 'व्यावर्तते' इत्यनेनान्वयः। व्यापकनिवृत्या व्याप्यस्य कारणनिवृत्त्या कार्यस्य च निवृत्तिर्भवति, यतो व्यापकनिवृत्तावपि व्याप्यं यदि न निवर्तेत तदा तदभाववद. वृत्तित्वलक्षणं व्याप्यत्वमेव व्याप्यत्वेनाभिमतस्य न स्यात् , तदभाववति तस्य विद्यमानत्वात्। एवं तत्समानाधिकरणात्यन्ताभावाप्रतियोगित्वलक्षणं व्यापकत्वमपि व्यापकत्वेनाभिमतस्य न भवेत् , तत्समानाधिकरणात्यन्ताभावप्रतियोगित्वात् , इति व्याप्य-व्यापकभाव एवोच्छिद्येत, एवं कारणत्वेनाभिमतपदार्थस्याभावेऽपि कार्य: त्वेनाभिमतपदार्थो यदि भवेत् तर्हि तव्यवहितप्राक्क्षणावच्छेदेन तत्समानाधिकरणात्यन्ताभावप्रतियोगित्वेन तद्भावलक्षणकारणत्वमेव न भवेत् , तद्भावे तत्सत्त्वलक्षणव्यतिरेकव्यभिचारेण तत्कार्यत्वमेव च तस्य न स्यादिति कार्य-कारणभावो न निर्वहेदित्यतो

Loading...

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452