Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 420
________________ अनेकान्तव्यवस्थाप्रकरणम् ] [ ३५७ ल्पने गौरवात् , तथा च मृद्रव्येऽनभिव्यक्तद्रव्यात्मना घटसत्त्वमभिव्यक्तपर्यायात्मना च घटासत्त्वमिति स्याद्वाद एव विजयत इति सूक्ष्मदशा निभालनीयम् ।। अथ असत्कार्यवादिनः कारणतां प्रति नियताः शक्तयो न घटन्ते, कार्यात्मकानामवधीनामनिष्पत्तेः, नावधिमन्तरेणावधिमतः सद्भावः सम्भवतीति प्रतिनियतशक्तिकुक्षिप्रविष्टत्वादेव कारणेषु कार्यसवमावश्यकम् , तदुक्तम् "अवधीनामनिष्पत्तनियतास्ते न शक्तयः। - सच्चे च नियमस्तासां, युक्तः सावधिको ननु" ॥[ ] ऽनभिव्यक्तद्रव्यात्मापेक्षया सत्वम् , पृथुवुध्नोदरादिलक्षणाभिव्यक्तपर्यायापेक्षयोत्पत्तितःप्रान् मृद्रव्ये घटास्यासत्त्वमित्यतः सदसद्रूपो घट इति सदसत्कार्यवादलक्षणः स्याहादोऽयत्नोपनत इति सोऽन्यवादापेक्षयाऽतिसुदृढनिरूढत्वाद् विजयत इत्याह- मृद्रव्य इति । __य उत्पत्तेः पूर्वमसदेव कार्यमित्युपैति, तन्मते उत्पत्तेः प्रागसतः कार्यस्य न किञ्चिनिष्ठकारणतानिरूपकत्वं सम्भवति, सावधिकस्य कारणत्वस्यावध्यभावेऽसत्त्वे तदधीना शक्तिरपि न घटत इति कारणत्वेनाभिमते पदार्थ कार्यत्वेनाभिमतपदार्थानुकूलशक्तिप्रसि. यर्थ कार्यस्य सत्त्वमावश्यकमिति सत्कार्यवादः स्वीकरणीय इति सत्कार्यवादी शङ्कते- अधेति 'असत्कायवादिनः' इत्यनन्तरं 'मते' इति शेषः । कारणतां प्रति नियता इति- यत्र यनिरूपितकारणत्वं तत्र तन्निरूपिता शक्तिरित्येवं कारणतां प्रति नियता इत्यर्थः । कार्य शक्त्यवधित्वं शक्तिनिरूपकत्वमेव, यदा कार्यलक्षणोऽवधिर्नास्ति तदा तदवधिका शक्तिरपि न सम्भवतीत्याह- नहीति- अस्य 'सम्भयति' इत्यनेनान्वयः । उक्तार्थ प्राचां सम्मतिमाह - तदुक्तमिति । ते तव मते । सत्त्वे च अवधिभूतानां कार्याणामुत्पत्तेः प्राक् सत्त्वे पुनः। तासां शक्तीनाम् ।

Loading...

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452