Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 419
________________ [ तत्त्ववोधिनीविवृतिविभूषितम् न च चक्षुःसंयोगादेरप्यभिव्यक्तस्यैव व्यञ्जकत्वोपगमान्नायं दोषः १ अभिव्यक्तत्वं हि ज्ञातत्वम्, न च चक्षुःसंयोगादेर्शातस्य व्यञ्जकत्वम्, किन्तु स्वरूपसत इति यत्किञ्चिदेतत् । कालविशेषवैशिष्टयमेवाभिव्यक्तिरिति चेत् १ सा तर्हि व्यञ्जकतावच्छेदिका मृद्रव्य एव कल्पनीया, चैत्रादिभेदेनाऽनन्तचक्षुःसंयोगादौ तत्क पगतत्वेन ‘सदेव कारणे कार्यम्' इति सालयप्रतिज्ञायाः सन्न्यासप्रसङ्गादित्यर्थः । चक्षुस्संयोगादेः स्वरूपतो नाभिव्यञ्जकत्वं तेन स्वरूपतः चक्षुस्संयोगादेः पूर्व सत्वेऽपि न घटोपलम्भप्रसङ्गः, किन्त्वभिव्यक्तस्य चक्षुस्संयोगादेरभिव्यञ्जकत्वम् , अभिव्यक्तिव्यतिरिक्तस्यैव कार्यस्य पूर्व सत्त्वमुच्छृङ्खलसाङ्ख्यमतेऽभिमतमित्यभिव्यक्तेः पूर्वमभावादभिव्यक्तचक्षुःसंयोगादेरपि पूर्वमभाव इति न तत्का. रणस्य घटायुपलम्भस्य पूर्व प्रसङ्ग इत्याशङ्कय प्रतिक्षिपति- न चेति । प्रतिक्षेपहेतुमुपदर्शयति- अभिव्यक्तत्वं हीति । साङ्ख्यः शङ्कतेफलविशेषेति एवं सति स्याद्वादप्रवेश एव साङ्क्षयस्य ज्यायानिति सिद्धान्ती समाधत्ते- सेति-कालविशेषवैशिष्ट्यलक्षणाऽभिव्यक्तिरित्यर्थः। मृद्र्व्य एवेति-अभिव्यक्तमृद्रव्यमेव घटाघभिव्यञ्जकम्, तत्र व्यञ्जकतावच्छेदकतया प्रतिष्ठाभिव्यक्तिश्च कालविशेषवैशिष्ट्यमेव, अभिव्यक्तमृद्मव्यस्य घटाधभिव्यञ्जकत्वकल्पनापेक्षयाऽभिव्यक्तचक्षुःसंयोगादौ घटाद्यभिव्यञ्जकत्वकल्पने गौरवमपीत्यतो लाघवादभिव्यक्तमृद्रव्यस्यैव घटाद्यभिव्यञ्जकत्वं युक्तमित्याह- चैत्रादिभेदेनेति । खत्कल्पने कालविशेषवैशिष्ट्यलक्षणस्याभिव्यक्तत्वस्य कल्पने। भवत्वे. वमेव किं नश्छिन्नमित्यत आह- तथा चेति- अभिव्यक्तमृद्रव्यस्य घटाद्यभिव्यञ्जकत्वे चेत्यर्थः। अपेक्षाभेदेन सत्त्वाऽसत्त्वयोरेकत्र कार्ये सदसत्काविादो जैनानां सिद्धिमुपयाति, घटरूपकार्यस्य मृद्रव्ये

Loading...

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452