Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 362
________________ अनेकान्तव्यावस्थाप्रकरणम् ] [ २९६ चेत् ? नहि सार्वजनीनो नयान्तरार्थप्रतिभासो नयान्तरेण बाध्यते, किन्तु तदप्रामाण्यं विषयीक्रियत इति ज्ञानप्रामाण्यसंशयादर्थसंशय इव तदप्रामाण्यनिश्चयात् तदर्थाभावनिश्चय इति सामान्यनयाप्रामाण्यनिश्चयप्रयुक्ततदभावनिश्चयत्वमेव तदभावार्थयत्नपरत्वमिति न कोऽपि दोषः । तदिदमुक्तं महावादिना “दवट्ठियवत्तवं, अवत्थु णियमेण होइ पजाए [पञ्जवणयस्स]| तह पञववत्थुमवत्थुमेव दवट्टियणयस्स ॥ [सम्मतौ का०१,गा०१०] इत्यनेनान्वयः। तदभावार्थ सामान्याभावार्थम् । समाधत्ते- नहींति-अस्य 'बाध्यते' इत्यनेनान्वयः। सार्वजनीनः सर्वजनसिद्धः। यदि नयान्त. रार्थप्रतिभासो नयान्तरेण न बाध्यते तर्हि तद्विचारस्य प्रयोजनं किम् ? नयान्तरविषयाभावार्थो यत्नोऽपि तस्य कुण्ठ एव, तत्प्रयत्ने. जपि नयान्तरविषयोऽवतिष्ठत एवेति पृच्छति-किन्विति। उत्तरयतितदप्रामाण्यमिति- सामान्यविषयकज्ञानरूपद्रव्यार्थिकनयाऽप्रामाण्यं पर्याव्यार्थिकनयेन विषयीक्रियत इत्यर्थः। ज्ञानेति- यथा तद्विषयकशानप्रामाण्यसंशयात् तदर्थविषयकः संशयस्तथा तदर्थविषयकज्ञानाऽ. प्रामाण्य निश्चयात् तदर्थाभावनिश्चय इत्यतः सामान्यविश्यकज्ञानरूप. द्रव्यार्थिकनयाऽप्रामाण्यनिश्चयप्रयुक्तसामान्याभावविषयकनिश्चयत्वमेव पायार्थिकनयस्य तदभावार्थयत्नपरत्वमित्येवमभ्युपगमे न कश्चिद् दोष इत्यर्थः। उक्तार्थे सम्मतिगाथासंवादमाह- तदिदमुक्तमिति । महावादिना वादिप्रकाण्डेन श्रीसिद्धसेनदिवाकरेण । “दव्वट्ठिय०" इति." द्रव्यार्थिकवक्तव्यम् अवस्तु नियमेन भवति पाये [पर्यवनयस्य] । तथा पर्यववस्तु अवस्त्येव द्रव्यार्थिकनयस्य ।". इति संस्कृतम् ।

Loading...

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452