Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 409
________________ ३४६ ] [तत्त्वबोधिनीविवृतिविभूषितम् ऽनर्थान्तरभूत इति पक्षः कक्षीक्रियते ? तथाप्येकस्माद् धर्मिस्वरूपादव्यतिरिक्तत्वात् तिरोभाव-ऽऽविर्भाववतोधर्मयोरप्येकत्वं धर्मिस्वरूपवदिति केन रूपेण धर्मी परिणतः स्यात् ? धर्माभ्यां च धर्मिणोऽनन्यत्वात् तस्य निवृत्ति-प्रादुर्भावौ स्यातामिति नैकस्य कस्यचित् परिणामित्वं सिद्धयेत् , उभयजननैकस्वभावत्वं च कथश्चित् प्रागभावप्रध्वंसात्मकवस्तुसत्ताभ्युपगन्तस्याद्वादिमत एव शोभत इति न परिणामवशादपि साङ्ख्यानां कार्य-कारणव्यवहारः सङ्गच्छते। यचासत्कार्यवादे "असदकरणाद्" इत्यादिदूषणमभ्यधायि, तत् सत्कार्यवादेऽपि तुल्यं, तथाहि-सत्कार्यवादिनामपि शक्यमिदमित्थमभिधातुम् " न सदकरणादुपादानग्रहणात् सर्वसम्भवाभावात् । शक्तस्य शक्यकरणात् , कारणभावाच्च सत्कार्यम्" ॥१॥ इति अत्र च 'न सत्कार्यम्' इति व्यवहितेन सम्बन्धो विधातव्यः, तत्र 'सदकरणाद्' इत्याद्यो हेतुः, यदि हि दुग्धादिषु दध्यादीनि धमिस्वरूपादिति । पूर्वधर्मतिरोभावोत्तरधर्माविर्भावोभयजननैकस्वभावत्वमेव धर्मिणः परिणाम इति तु स्याद्वादमत एव घटते, न तु साङ्ख्यमत इत्याह-उभयजननैकस्वभावत्वं चेति। असत्कार्यवादे साङ्खयोक्तदुषणमपि स्वपक्षसन्निवेशिदूषणसदृशत्वान्नोद्भावनाहमित्याहयच्चेति । तत् दूषणम् । अत्र ' असदकरणाद्' इत्यस्य स्थाने 'सद करणाद्' इत्येकस्य विलक्षणत्वेऽप्यन्यस्थ समानत्वात् तुल्यत्वमव. सेयम् । 'अत्र च "न सदकरणाद्" इति पये च 'न सदकरणाद्' इत्यादावुपात्तस्य नमोऽन्ते स्थितेन 'सत् कार्यम्' इत्यनेन सम्बन्धे सति 'न सत्कार्यम्' इति प्रतिज्ञास्वरूपनिष्पत्तिर्भवतीति तथैव दर्शयति- न सत्कार्यमितीति । तत्र न सत्कार्यमिति प्रतिज्ञायाम् । आधः

Loading...

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452