Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 414
________________ अनेकान्तव्यवस्थाप्रकरणम् ] [ ३५१ तादेव च क्षीरादेर्दध्यादीनामुद्भव इत्येतदप्यनुपपन्नं स्यात्, साध्यस्यासम्भवादेव, यतः सर्वस्मात् सम्भवाभाव एव नियताजन्मेत्युच्यते, तच्च सत्कार्यवादे दुर्वचम् सति सम्भवे सर्वस्माद् भावापत्तेरनिवारणात्, असति च 'सर्वस्माद्' इति वचनस्य नैरर्थक्यात् ३ तथा साध्यस्याभावादेव न नियताज्जन्मसम्भव इत्याह- साध्यस्याऽसम्भवादेवेति । अमुकस्य कार्यस्यामुकादेव भावो न सर्वस्मादिति सिद्धौ सत्यामेव नियताज्जन्मेति प्रसिद्ध्यति, सत्कार्यवादे तु सतो जन्मैव विद्यते, नाऽमुकस्याऽमुष्माज्जन्मेत्यभिधातुं शक्यमिति कुतो नियताजन्म ? सतोऽपि जन्यत्वे कस्यचिदतिशयस्योत्पादनमन्तरापि तत्कारणं किञ्चिदेष्टव्यम् एवमन्यदप्यतिशयोत्पादकत्वाभावाविशेषात् किं न तत्कारणं भवेद् ? इति सर्वस्मात् सम्भवे कथं नियताज्जन्म ?, सतो जन्मनोऽसम्भवे च 'सर्वस्माद्' इतिहेत्वर्थक पञ्चम्युक्तेरप्यनुपपत्तिरित्याह- यत इति । तच्च सर्वस्मात् सम्भवाभावतो नियताज्जन्म च । प्रसक्तस्य निषेधो भवति, नाऽप्रसक्तस्येति सर्वस्माद यदि सम्भवो भवेत् तदा तत्प्रतिषेधः कुतश्चिद् हेतोः कर्तुं शक्यः, सत्कार्यवादे व कार्ये सत्त्वस्याऽविशेषाद विशेषान्तरस्य वक्तुमशक्यत्वात् प्रतिनियतकारणापेक्षयेवाऽन्यापेक्षयाSप्युत्पादसम्भवे सर्वस्माद् भावापतितः सर्वस्मात् सम्भवाऽभावाऽसिद्धया न नियताज्जन्मप्रसिद्धिरित्याह- सति सम्भव इति - सत उत्पादसम्भवे सतीत्यर्थः । यदि च सत उत्पाद एव न सम्भवति तहिं न सर्वस्य कस्यचित् कारणत्वमिति कारणत्वार्थकपञ्चमीविभक्तिरेव सर्वशब्दान्नोत्पत्तुमर्हतीति 'सर्वस्माद्' इति वक्तुमशक्यत्वे सर्वस्मात् सम्भवाभावः' इत्यपि नाभिधातुं शक्यमिति कथं ततो नियताज्जन्मप्रसिद्धिरित्याह- असति चेति- सतो जन्मनः सम्भवेsafa चेत्यर्थः । चतुर्थहेतुं भावयति - तथेति । सत्कार्यवादे 'शकस्य शक्य - 4

Loading...

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452