Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 411
________________ ३४८ ] [ तत्त्वबोधिनीविवृतिविभूषितम् कारणे सद् न तत् केनचिज्जन्यं यथा - प्रकृतिश्चैतन्यं वा, तदेव वा - मध्यावस्थायां कार्यम्, सच्च सर्वात्मना परमतेन क्षीरादौ दध्यादीति व्यापक विरुद्धोपलब्धिप्रसङ्गः न च हेतोरनैकान्तिकता, अनुत्पाद्यातिशयस्यापि जन्यत्वे सर्वेषां जन्यत्वप्रसक्तेः, अनभिव्यक्तरूपेण सामान्यव्याप्तौ तस्य प्रवेश इति बोध्यम् । 'प्रकृतिश्चेतन्यं वा ' इति दृष्टान्तः साङ्ख्याभ्युपगममाश्रित्येव, अतः सर्वानुमतिमाश्रित्य दृष्टान्तमाह- तदेव वा मध्यावस्थायां कार्यमिति - दध्यादिकार्यमेव प्रादुर्भूतदध्याद्यवस्थं न केनचिजन्यं यथा भवतीत्यर्थः । ' यत् सर्वात्मना इत्याद्यु-दाहरणावयवोपन्यासः । ' सच सर्वात्मना इत्याद्युपनयावयवोपन्यासः । परमतेन सत्कार्यवादिसाङ्ख्यमतेन । व्यापक विरुद्धोपलब्धिप्रसङ्ग इति - 'केनचिजन्यं न स्याद्' इति प्रसङ्गे निषेध्यस्य केनचिजन्यत्वस्य व्यापकं कथञ्चिदसत्त्वम् तद्विरुद्धं सर्वात्मना सत्त्वम्, तदुपलब्धिप्रसङ्गःतदुपलब्धिहेतुकः प्रसङ्ग आरोपित व्यापकविरुद्ध हेतुकयाप्यनिषेधप्रसञ्जनमिति यावत् । सर्वात्मना सत्त्वलक्षणहेतुमदपि केनचिज्जन्यमस्त्विति कृत्वा हेतोरनैकान्तिकत्वमाशङ्कय प्रतिक्षिपति-न चेतिअस्य ' वाच्यम्' इति परेण योगः । हेतोः केनचिजन्यत्वाभावसाधकतयोपन्यस्तस्य सर्वात्मना सत्वलक्षणहेतोः । अनेकान्तिकता व्यभि चारिता | सर्वात्मना सत्वं कार्यस्य यदभ्युपगम्यतेऽस्माभिस्तच्छक्तिरूपेण, न तु व्यक्तिरूपेण, तथा चाऽनभिव्यक्तशक्तिरूपेण सर्वात्मना सदवि कार्ये कारणेनाऽभिव्यक्रूयाद्यतिशयोत्पादनतो जन्यं भवतीत्येव सातिशयस्य जन्यत्वमुपेयते, न त्वनुत्पाद्यातिशयस्य जन्यत्वं प्रकृतिचैतन्यादिस्वरूपस्य जन्यत्वापत्तिभियोपेयते, इत्थं च शक्तिरूपेणाऽ नभव्यक्तसर्वात्मना सत्वमस्ति, केनचिज्जन्यत्वमप्यस्तीति केनचिज न्यत्वाभावलक्षणसाध्याभाववति हेतोः सत्वादनैकान्तिकतेत्याहअनुत्पाद्यातिशयस्यापीति । ननु यद् अभिव्यक्त्यादिरूपेण सर्वात्मना कारणे सद्, न तत् केनचिजन्यमित्येवमेवोपेयते, तथा चाभिव्यतयादि "

Loading...

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452