Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 405
________________ ३४२] ___ [तत्वबोधिनीविवृतिविभूषितम् युक्तम् ,तस्य स्वभावान्तरोत्पादनिबन्धनत्वात् । व्यवस्थितस्य धर्मिणो धर्मान्तरनिवृत्तौ धर्मान्तरप्रादुर्भावलक्षणः परिणामोऽभ्युपगम्यते, न तु स्वभावान्यथात्वम् , क्रमिकोभयधर्मैकस्वभावस्य वस्तुनोऽव्याहतत्वादिति चेत् ? असदेतत्-यतः प्रच्यवमान उत्पद्यमानश्व धर्मों धर्मिणोऽर्थान्तरभूतोऽभ्युपगन्तव्यः, अन्यथा धर्मिण्यवस्थिते तस्य तिरोभावा-ऽऽविर्भावासम्भवात्, तथाहि-यस्मिन् वर्तमाने यो सर्वात्मनाऽन्यथाभावे चोक्तदिशा दोषसद्भावात् । नञः ‘युक्तम्' इत्यनेनान्वयः। नित्यैकान्ते नित्यैकान्ताभ्युपगमे। तव साङ्ख्यस्य । कथं न युक्तमित्यपेक्षायामाह-तस्येति-अन्यथात्वस्येत्यर्थः । धर्मी सदाऽव. तिष्ठत पव, न तु तस्य निवृत्तिः, अतो न तस्य स्वभावान्यथात्वमिति न तत्स्वरूपः परिणामोऽभ्युपगम्यते, किन्तु पूर्वधर्मनिवृत्तौ सत्यां धर्मान्तरस्य प्रादुर्भाव एव परिणामोऽभ्युपेयते, सोऽयं परि णामः ऋमिकोभयस्वभावस्य वस्तुनः सम्भवत्येवेति साङ्ख्यः शङ्कतेव्यवस्थितस्येति- पूर्वोत्तरकालमवस्थितस्येत्यर्थः । धर्मान्तरनिवृत्तौ पूर्वधर्मनिवृत्तौ । धर्मान्तरप्रादुर्भावलक्षणः उत्तरधर्मप्रादुर्भावस्वरूपः। नन्वेवं पूर्वधर्मस्वरूपस्य स्वभावस्य प्रच्युतिरुत्तरधर्मस्वरूपस्य स्वभावस्याविर्भाव इत्युपगतौ स्वभावान्यथात्वमागतमेवेति रिक्तमिदमुच्यतेन तु स्वभावान्यथात्वमित्यत आह- क्रमिकोभयेति-ऋमिकोभयधर्म एकस्वभावो यस्य स क्रमिकोभयधभैकस्वभावस्तस्येत्यर्थः, एवम्भूतश्च स्वभावः क्रमेणोभयधर्मभाव एवोपपद्यत इति पूर्वधर्मनिवृत्तौ धर्मान्तरप्रादुर्भावे च सति नोक्तस्वभावस्यान्यथात्वमित्युक्तस्वभावस्य वस्तुनः पूर्वधर्मनिवृत्तिःधर्मान्तरप्रादुर्भावभावेऽप्यव्याहतत्वादित्यर्थः। सिद्धान्ती उक्ताशङ्कां प्रतिक्षिपति-असदेतदिति। तत्र हेतुः-यत इति। अन्यथा उक्तधर्मद्वयस्य धर्मिभिन्नत्वाभावे । तस्य ऋमिकधर्मद्वयस्य । अवस्थिते धर्मिणि तदभिन्नस्य धर्मस्य तिरोभावाऽऽविर्भावाऽसम्भपतो भेदमेवोपपादयति- तथाहीति । ततो घटात् । असौ धर्मकलापः ।

Loading...

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452