________________
३४२]
___ [तत्वबोधिनीविवृतिविभूषितम् युक्तम् ,तस्य स्वभावान्तरोत्पादनिबन्धनत्वात् । व्यवस्थितस्य धर्मिणो धर्मान्तरनिवृत्तौ धर्मान्तरप्रादुर्भावलक्षणः परिणामोऽभ्युपगम्यते, न तु स्वभावान्यथात्वम् , क्रमिकोभयधर्मैकस्वभावस्य वस्तुनोऽव्याहतत्वादिति चेत् ? असदेतत्-यतः प्रच्यवमान उत्पद्यमानश्व धर्मों धर्मिणोऽर्थान्तरभूतोऽभ्युपगन्तव्यः, अन्यथा धर्मिण्यवस्थिते तस्य तिरोभावा-ऽऽविर्भावासम्भवात्, तथाहि-यस्मिन् वर्तमाने यो सर्वात्मनाऽन्यथाभावे चोक्तदिशा दोषसद्भावात् । नञः ‘युक्तम्' इत्यनेनान्वयः। नित्यैकान्ते नित्यैकान्ताभ्युपगमे। तव साङ्ख्यस्य । कथं न युक्तमित्यपेक्षायामाह-तस्येति-अन्यथात्वस्येत्यर्थः । धर्मी सदाऽव. तिष्ठत पव, न तु तस्य निवृत्तिः, अतो न तस्य स्वभावान्यथात्वमिति न तत्स्वरूपः परिणामोऽभ्युपगम्यते, किन्तु पूर्वधर्मनिवृत्तौ सत्यां धर्मान्तरस्य प्रादुर्भाव एव परिणामोऽभ्युपेयते, सोऽयं परि णामः ऋमिकोभयस्वभावस्य वस्तुनः सम्भवत्येवेति साङ्ख्यः शङ्कतेव्यवस्थितस्येति- पूर्वोत्तरकालमवस्थितस्येत्यर्थः । धर्मान्तरनिवृत्तौ पूर्वधर्मनिवृत्तौ । धर्मान्तरप्रादुर्भावलक्षणः उत्तरधर्मप्रादुर्भावस्वरूपः। नन्वेवं पूर्वधर्मस्वरूपस्य स्वभावस्य प्रच्युतिरुत्तरधर्मस्वरूपस्य स्वभावस्याविर्भाव इत्युपगतौ स्वभावान्यथात्वमागतमेवेति रिक्तमिदमुच्यतेन तु स्वभावान्यथात्वमित्यत आह- क्रमिकोभयेति-ऋमिकोभयधर्म एकस्वभावो यस्य स क्रमिकोभयधभैकस्वभावस्तस्येत्यर्थः, एवम्भूतश्च स्वभावः क्रमेणोभयधर्मभाव एवोपपद्यत इति पूर्वधर्मनिवृत्तौ धर्मान्तरप्रादुर्भावे च सति नोक्तस्वभावस्यान्यथात्वमित्युक्तस्वभावस्य वस्तुनः पूर्वधर्मनिवृत्तिःधर्मान्तरप्रादुर्भावभावेऽप्यव्याहतत्वादित्यर्थः। सिद्धान्ती उक्ताशङ्कां प्रतिक्षिपति-असदेतदिति। तत्र हेतुः-यत इति। अन्यथा उक्तधर्मद्वयस्य धर्मिभिन्नत्वाभावे । तस्य ऋमिकधर्मद्वयस्य । अवस्थिते धर्मिणि तदभिन्नस्य धर्मस्य तिरोभावाऽऽविर्भावाऽसम्भपतो भेदमेवोपपादयति- तथाहीति । ततो घटात् । असौ धर्मकलापः ।