________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[३४१ युवत्वाद्यवस्थोपलब्धिप्रसङ्गः, अथ प्रच्युतेरिति पक्षः ? तदा पूर्वखभावान्तरं निरुद्धमपरं चोत्पनं स्थिरं किञ्चित् स्थितमिति न कस्यचित् परिणामः सिद्धयेत् । अपि च तस्यैवान्यथाभावः परिणामो भवद्भिर्वर्ण्यते, स च एकदेशेन सर्वात्मना वा?, न तावदेकदेशेन, एकस्यैकदेशाऽसम्भवात् , नापि सर्वात्मना, पूर्वपदार्थविनाशेन पदार्थान्तरोत्पादप्रसङ्गात् , अतो न नित्यैकान्ते तव तस्यैवान्यथात्वं रूपाप्रच्युतेः परिणामाभ्युपगमे । अवस्थासाङ्कर्यात् रूपान्तरभवनलक्षणपरिणामावस्थापूर्वस्वभावावस्थयोः साङ्कर्यात्। यदा पुरुषो वृद्धत्वेन परिणमते तदानीं पूर्वरूपस्य युवत्वस्याऽप्रच्युतेस्तस्यापि सद्भाव इति वृद्धाद्यवस्थायां युवत्वाद्यवस्थाऽप्युपलभ्येतेत्याइ- वृद्धाद्यवस्थायामपीति । तदा पूर्वरूपप्रच्युतेः परिणामो भवतीत्यभ्युपगमे । पूर्वेति-पुरुषस्य पूर्वस्वभावान्तरं युवत्वादिकं विरुद्धं विनष्टम् । अपरं च वृद्धत्वाद्यवस्थालक्षणस्वभावान्तरं चोत्पन्नम् , स्थिरं पुरुषस्वभावलक्षणस्वरूपं स्थितं युवाद्यवस्थायामपि वृद्धाद्यवस्थायामप्यवतिष्ठत इत्येतत् त्रितयस्वरूपं परस्परभिन्नमेवेति न कस्यचित् परिणामः सिद्धयेदित्यर्थः। परस्य स्वाभ्युपगमत एव परिणामवादो न सम्भवतीत्याह- अपि चेति। भवद्भिः साङ्ख्याचार्यः। स च अन्यथा. भावश्च, एकदेशेन तस्यैवान्यथाभावः परिणाम इति प्रथमपक्षो न सम्भवतीत्याह- न तावदेकदेशेनेति । अखण्डस्य वस्तुन एकदेशभावेऽखण्डवस्तुस्वरूपमेव न भवेदिति नैकस्य वस्तुन एकदेशोऽस्तीति तभावादेकदेशेनाऽन्यथाभावो न सम्भवतीत्याह- एकस्यैकदेशाऽसम्भवादिति । तस्यैव सर्वात्मनाऽन्यथाभावः परिणाम इति द्वितीय पक्षमा पहस्तयति- नापि सर्वात्मेति । तस्यैव सर्वात्मनाऽन्यथाभावस्तदा भवेद् यदि तद् वस्तु सर्वथा नश्येद् वस्त्वन्तरमेव चोत्पद्येत, एवं तु स्वीकर्तुं नैकान्तनित्यवादी साङ्ख्यः प्रभवतीति तदनिष्टं तस्य प्रसज्यत इत्याह- पूर्वपदार्थविनाशेनेति। अतः एकदेशेनान्यथाभावे