________________
३४० ]
[ तत्त्वबोधिनीविवृतिविभूषितम् च परस्परमेदाभ्युपगमस्य निर्निमित्तत्वापत्तेः, अभेदेऽपि परस्परवैपरीत्यसम्भवात., अपि चान्वय व्यतिरेकामावादपि प्रधानादिभ्यो महदाद्युत्पत्तिकमोऽप्रामाणिकः। किञ्च, नित्यस्य क्रम-योगपद्याभ्या. मर्थक्रियाविरोधादप्यसावयुक्तः। अथ नास्माभिरपूर्वस्वभावोत्पत्त्या कार्यकारणभावोऽभ्युपगम्यते, यद् रूपभेदादसौ विरुध्यते, किन्तु प्रधानं महदादिरूपेण परिणतिमुपगच्छति सर्पः कुण्डलादिरूपेणेवेति प्रधानं महदादिकारणमिति व्यपदिश्यते, महदादयस्तु तत्परिणामरूपत्वात कार्यव्यपदेशमासादयन्ति, न च परिणामोऽभेदेऽपि विरोधमनुभवति, एकवस्त्वधिष्ठानत्वात् तस्येति, असम्यगेतत्-परिणामा. सिद्धेः, तथाहि-असौ पूर्वरूपप्रच्युतेस्तदप्रच्युतेर्वेति कल्पनाद्वयम्, तत्र यद्यप्रच्युतेरिति पक्षः ? तदाऽवस्थासाङ्कर्याद् वृद्धाद्यवस्थायामपि नान्महान, महतोऽहङ्कारः' इत्येवमुत्पत्तिक्रमोऽप्रामाणिकत्वान्न साङ्ख्यानां युक्त इत्याह- अपि चेति। प्रधान-महदादिकं सर्वमेव साङ्ख्यमते नित्यमेव, न च नित्यस्य क्रम-योगपद्याभ्यामर्थक्रिया सम्भवतीत्यतोऽपि प्रधानादिभ्यो महदाद्युत्पत्तिक्रमो न युक्त इत्याहकिश्चेति । असौ प्रधानादिभ्यो महदाधुत्पत्तिकमः। साङ्ख्यः शङ्कतेअर्थात- 'नत्रः अभ्युपगम्यत' इत्यनेनान्वयः । अस्माभिः कापिलाचार्यः। रूपभेदाद् अकारणावस्थास्वरूपात् करणावस्थास्वरूपस्य भेदात् । असौ कार्य-कारणभावः । विरुद्धथेत एकान्तनित्ये नोपपद्येत । यद्यपूर्वस्वभावोत्पत्त्या कार्यकारणभावो न भवद्भिरुपेयते तहि कथं कार्यकारणभाव उपेयते ? येन एकान्तनित्ये विरोधो न भवेदिति पृच्छतिकिन्त्विति। उत्तरयति-प्रधानमिति । तत्परिणामरूपत्वात् प्रधानपरिणामरूपत्वात्। 'न च' इत्यस्य 'अनुभवति' इत्यनेनान्वयः। तस्य परिणामस्य। उक्ताशकां सिद्धान्ती प्रतिक्षिपति- असम्यगेतदिति । परिणामासिद्धिमेव विकल्पतो व्यवस्थापयति- तथाहीति । असौ परिणामः। तदेति- पूर्व