________________
ममेकान्तव्यवस्थाप्रकरणम्]
[३३९ हेतुमचादिधर्मयुक्तव्यक्तविपरीतमव्यक्तमित्येतदपि बालप्रला. पानुकारि, नहि यद् यतोऽव्यतिरिक्तस्वभावं तत् ततो विपरीतं युक्तम् , भेदव्यवहारोच्छेदप्रसङ्गात् , सत्व-रजस्तमसां चैतन्यानामपि "यदेव." इति - कार्य-कारणयोरभेदे क्षीरकारणकं दधि क्षीररूपमेव, क्षीरं च दधिरूपमेवेति स्यात् , लोके च क्षीरदध्नोभिन्नतयैवानुभव इत्यनुभववाधितं क्षीरं दधि दधि क्षीरमित्येवं विन्ध्यवासिना सावयाचार्यण स्वगतं विन्ध्यवासित्वं पाषाणमयस्थानवासित्वम् , पाषाणमयस्थाननिवासिनां भिल्लादीनामतिजाड्यं भवति, तद्वद् बाधितमर्थं वदतःसाङ्ख्याचार्यज्याप्यतिजाड्यमिति तत् ख्यापितमित्येवमसत्कार्यवादिभिः साङ्ख्याचार्यो यदुपहस्यते तत् सुष्वेव ॥ ___एवं “हेतुमदनित्यमव्यापि०" इत्यादिकारिफया व्यक्तस्य महदादेहतुमत्त्वादियोगस्तद्वैपरीत्यं चाव्यक्तस्य प्रधानस्येत्येतदपि महदादेः प्रधानाभिन्नत्वे न युक्तम् , भेद एव विरुद्धधर्मोपपत्ते भेदे इत्याह- हेतुमत्त्वादीति। 'नहि' इत्यस्य 'युक्तम्' इत्यनेनान्वयः । वैपरीत्ये विरुद्धधर्माध्यासो भवति, 'अयमेव भेदो भेदहेतुर्वा, यदुतविरुद्धधर्माध्यासः' इति वचनाद् विरुद्धधर्माध्यासनियतो भेदः एवं चाभेदे विरुद्धधर्माध्यातासम्भवान्न व्यक्तरीत्यमव्यक्तस्य, अमेदे ऽपि च विरुद्धधर्माध्यासाभ्युपगमे भेदनियततैव विरुद्धधर्माध्यासस्य न भवेदिति ततो भेदव्यवहारस्योच्छेद एव प्रसज्यत इत्याह- भेदव्यवहारोच्छेदप्रसङ्गादिति । यदा च व्यक्तादभिन्नऽप्यव्यक्ते वैपरीत्यं तर्हि प्रकृति पुरुषयोरभेदेऽपि वैपरीत्यस्य सम्भवेन तयोर्भेदाभ्युपगमो निनिमित्त एव भवेदित्याह- सत्त्व-रज-स्तमसामिति । दण्डे सति घटो भवति, दण्डाभावे घटो न भवतीत्येवमन्वय-व्यतिरेकाभ्यां दण्डघटयोः कार्य-कारणभावो गृह्यत इति दण्डाद् घटो भवतीत्येवं वक्तुमभ्युपगन्तुं च युज्यते, प्रधाने सति महदादिकं भवति, प्रधानाभावे महदादिकं न भवतीत्येवमन्वय व्यतिरेकयोरनुपलम्भादभावे 'प्रधा