________________
३३८]
[वत्वोधिनीविवृतिविभूषितम् तत् सर्वमिदमिन्द्रजालम्-सर्वेषां परस्परमव्यतिरेकात् कार्यत्व कारणत्वान्यतरस्यैव प्रसङ्गात् , अन्यापेक्षत्वात् कार्य-कारणभावस्थापेक्षणीयरूपान्तराभावात् पुरुषवदप्रकृतिविकृतित्वप्रसङ्गाद्वा, अन्यथा पुरुषस्यापि प्रकृति-विकृतिव्यपदेशप्रसक्तेः, तत् सुष्ट्रपहस्यते कापिलाचार्योऽसत्कार्यवादिभिः
" यदेव दधि तत् क्षीरं, यत् क्षीरं तद् दधीति च । वदता विन्ध्यवासित्वं, ख्यापितं विन्ध्यवासिना" ॥
] इति। तत् सर्वमिदम् ईश्वरकृष्णोक्तं " मूलप्रकृतिरविकृतिः” इत्याद्यनन्तराभिहितमखिलम्। इन्द्रजालं तुच्छम् । सर्वेषां प्रधान महदादीनाम् । परस्परमन्योऽन्यम्। अव्यतिरेकादभेदात् 'तदभिन्नाऽभिन्नस्य तदभिन्नत्वम् ' इति नियमेन महदभिन्नप्रकृत्यभिन्नस्याहङ्कारादेरपि महदभिन्नत्वम् , पवमहङ्काराऽभिन्नप्रकृत्यभिन्नस्य महदादेरहङ्काराऽभिन्नत्वमित्येवमभेदात्। सर्वेषामभेदे एकमेव रूपं भवेत् कार्यत्वं कारणत्वं वा, कार्यत्वे सर्व एव विकृतयः स्युः, कारणत्वे सर्व एव प्रकृतयः स्युन तु कस्यचित् प्रकृतिमात्ररूपत्वं कस्यचिद् विकृतिमात्ररूपत्वं कस्यचित् प्रकृति-विकृत्युभयस्वरूपत्वमित्याह- कार्यत्वेति-कार्यत्वं कारण. निरूपितम् , कारणत्वं कार्यनिरूपितमित्येवमन्यस्य सद्भावे सत्येव कार्य-कारणभावो निरूपयितुं शक्य इति, यदा च सर्व एव महदादय प्रधानकात्मका एव तदा भिन्नस्य कस्यचिदभावात् तदपेक्षस्य कार्य-कारणमावस्याऽभावे पुरुषो यथा न प्रकृतिविकृतिरूपस्तथा महदादिकमपि न प्रकृति-विकृतिरूपं भवेत् , अप्रकृति-विकृतिरूप. त्वमित्थं महदादीनां प्रसज्यत इत्याह- अन्यापेक्षत्वादिति । अन्यथा अफे. क्षणीयान्यरूपस्याभावेऽध्येकस्मिन् कार्य-कारणभावमुपेत्य प्रकृतित्वविकृतित्वाभ्युपगमे।
सावयाचार्य प्रति असत्कार्यवादिनामुपहासषचनमुलिखति