________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ ३३७ प्रधानस्वभावा एव, कथमेषां कार्यतया ततः प्रवृत्तियुक्ता ? न हि, यद् यतोऽव्यतिरिक्तं तत् तस्य कार्य कारणं वेति व्यपदेष्टुं युक्तम् कार्य-कारणयोभिन्नलक्षणत्वात् , इत्थं च यदीश्वरकृष्णेनोच्यते
"मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृति-विकृतयः सप्त । षोडशकश्च विकारो, न प्रकृतिने विकृतिः पुरुषः" ॥
[साङ्ख्यकारिका-३ ] इति । सायदर्शनरूपो व्यवहारनयोऽनन्तराभिहित इत्यर्थः। एषां प्रधानस्वभावानां महदादीनाम् । ततः प्रधानात् । प्रधानादभिन्नानां महदादीनां प्रधानकार्यत्वं न युक्तम् , ययोर्भेदस्तयोरेव कार्यकारणभावो भवति, यच्च यत्स्वरूपं तत् तस्यैव कार्य कारणं वेति व्यपदेष्टुं न शक्यमित्याह- नहीति । इत्थं च महदादीनां प्रधानखभावत्वेन प्रधान कार्यत्वाऽसम्भवे च। ___मूलप्रकृतिरिति-सर्वेषामादिकारणत्वान्मूलप्रकृतिः प्रधानं, सा च न कस्यापि तत्त्वान्तरस्य कार्यमित्यविकृतिः। महदाद्या इति-महदहङ्कार-पञ्चतन्मात्राणीत्येवं सप्त प्रकृति-विकृतयः, तत्र महान् बुद्धिरहङ्कारस्य तत्त्वान्तरस्य कारणत्वात् प्रकृतिः, प्रधानस्य कार्यत्वाच्च विकृतिः, एवमहङ्कारः पञ्चतन्मात्रादिषोडशगणस्य कारणत्वात् प्रकृतिः, महतःकायत्वाद् विकृतिः, पञ्च तन्मात्राणि च पञ्चमहाभूतस्य कारणस्वात् प्रकृतिः, अहङ्कारस्य कार्यत्वाद् विकृतिरिति भवन्ति महदाद्याः सप्त प्रकृतिविकृतयः, पञ्चमहाभूत-पञ्चज्ञानेन्द्रिय-पञ्चकर्मेन्द्रियमनोलक्षणः षोडशगणश्च न कस्यापि तत्त्वान्तरस्य कारणमिति प्रकृतिर्न भवति, किन्तु पञ्चमहाभूतानां पञ्चतन्मात्रकार्यत्वमिन्द्रियाणां चैकादशानामहङ्कारकार्यत्वमिति विकार एव भवति, पुरुषस्तु कूटस्थनित्यत्वान्न कस्यापि कारणं कार्य वेति प्रकृतिरपि न भवति नापि विकृतिरिति ॥
૨૨