________________
३३६ ]
[ तत्ववोधिनीविवृति विभूषितम्
एवमिदं महदादिकार्यमपि विभक्तमुपलभ्यमानं प्रधानं कारणं साधयतीति ४ । तथा वैश्वरूप्यं नाम त्रयो लोकाः, तदविभागात् प्रधानसिद्धि:, तथाहि - प्रलयकाले पश्च भूतानि पञ्चसु तन्मात्रेष्वविभागं गच्छन्ति, तन्मात्राणीन्द्रियाणि चाहङ्कारे, अहङ्कारस्तु बुद्धौ, बुद्धिः प्रधान इति । अविभागोऽविवेकः, यथा - क्षीरावस्थायामन्यत् क्षीरमन्यद् दधीति विवेको न शक्योऽभिधातुम्, तद्वत् प्रलयकाले ' इदं व्यक्तमिदमव्यक्तम्' इति विवेकोऽशक्यक्रिय इति मन्यामहे - अस्ति प्रधानम्, यत्र महदादिलिङ्गमविभागं गच्छतीति ५ ॥
सत्त्वरजस्तमोलक्षण सामान्यमेकमचेतनं द्रव्यम्, अनेकं च चेतनम्, द्रव्यमर्थोऽस्तीत्यशुद्धद्रव्यार्थिको व्यवहारनयः साङ्ख्य दर्शन
रूपः प्रवृत्तः ।
सोऽयं मिथ्या, विचारासहत्वात् । तथाहि - ' प्रधानादेव महदादिकार्य भेदाः प्रवर्तन्ते ' इति यदुक्तं तत्र यदि महदादयः कार्यविशेषाः मृत्पिण्डाद् विभक्त उपलभ्यते तथा । ' अविभागाद् वैश्वरूप्यस्य' इति पञ्चमहेतुं भावयति - तथेति । तदविभागात् लोकत्रयाविभागात् । अघिभागतः प्रधानसिद्धिं समर्थयति तथाहीति । अविभागात् प्रधानसिद्धिरभिमता, तत्राविभाग एव क इत्यपेक्षायामाह - अविभागोऽविवेक इति । अविवेकमेव रष्टान्तावष्टम्भेन दान्तिके दर्शयति- यथेति ।
अशुद्धद्रव्यार्थिकस्य व्यवहारनयस्य सायदर्शनरूपत्वमुपपादयति- सत्त्वेति । द्रव्यमर्थोऽस्तीति द्रव्यार्थिकः, तत्र महासामान्यशुद्धसत्व लक्षणद्रव्यविषयकस्य सङ्ग्रहन यस्य शुद्धद्रव्यार्थिकत्वम, व्यव हारे व सायदर्शनरूपे एकद्रव्यविषयकत्वाऽनेकद्रव्यविषयकत्वयोसङ्गावादशुद्धद्रव्यार्थिकत्वमिति व्यवहारनयमूलकत्वेन प्रपञ्चितस्य सामन्यदर्शनस्य विचाराऽसहत्वेन मिथ्यात्वं व्यवस्थापयति-सोऽयमिति