________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ ३३५ सुख-दुःख-मोहादिजातिसमन्वितं चेदं व्यक्तमुपलभ्यते, प्रसादताप-दैन्यादिकार्योपलब्धे, तथाहि-प्रसाद लाघवा-अभिष्वगोद्धर्ष। प्रीतयः सत्त्वस्य कार्यम्, सुखमिति च सत्वमेवोच्यते; ताप-शोपभेद-स्तम्भोद्वेगारजसः कार्यम् , रजश्व दुःखम् दैन्याऽऽवरण-सादनाऽवध्वंस-बीभत्स-गौरवाणि तमसः कार्यम् , तमश्च मोहशब्देनोच्यते एषां च महदादीनां सर्वेषां प्रसाद-ताप-दैन्यादिकार्यमुपलभ्यत इति सुख-दुःख-मोहानां त्रयाणामेते सन्निवेशविशेषा इत्यवसीयते, तेन सिद्धमेतेषां प्रसादादिकार्यतः सुखाद्यन्वितत्वम् , तदन्वयाच्च तन्मयप्रकृतिसम्भूतत्वमिति प्रधानसिद्धिः २ । तथेह लोके यो यस्मिन्नर्थे प्रवर्तते स तत्र शक्तः, यथा-तन्तुवायः पटकरणे, अतो व्यक्तो. त्पादनाथ प्रवर्तमानं किश्चित् कारणं शक्तिमदेष्टव्यम् , तदेव प्रधानमिति शक्तितः प्रधानसिद्धिः३। तथेह लोके कार्य-कारणयोर्विभागो दृष्टः, तद्यथा-मृत्पिण्डः कारणं घटः कार्यम् , स च मृत्पिण्डाद् विभक्तः, तथाहि-घटो मधूदक पयसां धारणसमर्थो न मृत्पिण्डा, ति । इदं व्यक्तं महदादिलक्षणं व्यक्तम् । प्रसादःसुखस्य कार्यम् , तापो दुःखस्य कार्यम् , दैन्यं मोहस्य कार्यमिति तदुपलब्धितः सुख-दुःखमोहादिजातिसमन्वितं बुद्धयादिकमित्याह-प्रसादेति। प्रसादादिकार्यतः सुखादिसमन्वितत्वं महदादीनां भावयति- तथाहीति- उद्धर्षो रोमाञ्चम् , स्पष्टमन्यत् । एते बुद्धादयः, तेन सुख-दुःख-मोहसन्निवेशविशेषत्वेन । एतेषां महदादीनाम् । तदन्वयाच सुरवाद्यन्वयात् पुनः। तन्मयेतिसुखादिमयेत्यर्थः।
प्रधानसिद्धिनिबन्धनं 'शक्तितः प्रवृत्तेः' इति तृतीयहेतुं भावयतितथेति । 'कारण-कार्यविभागाद्' इति चतुर्थहेतुं भावयति- तथेति ! कार्य: कारणविभागमेव स्पश्यति- तद्यथेति । स च घटश्च । मृत्पिण्डाद विभक्तत्वमेव घटस्य व्यवस्थापयति- तथाहीति । एवं यथा घटो