________________
३३४ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् स्यादेतत्- एवं हि नाम सत्कार्य सिद्ध्यतु, प्रधानादेव महदादिकार्यभेदा इत्येतत् तु कथं सिध्यति ?, उच्यते
"भेदानां परिमाणात्, समन्वयाच्छक्तितः प्रवृत्तेश्च । कारण-कार्यविभागादविभागाद् वैश्वरूप्यस्य" ॥
साङ्खयकारिका० १५] भेदानां महदादीनाम् , परिमाणं दृश्यते- एका बुद्धिः, एको. ऽहङ्कारः, पश्च तन्मात्राणि, एकादशेन्द्रियाणि, पञ्च महाभूतानि इति, ततस्तत्कारणमेकमेष्टव्यम्,परिमितत्वेनोपलभ्यमानघटादेरिव मृदादि, तदेव प्रधानम् १ । तथा भेदानां समन्वयात्- कारगजात्यनुवृत्तिदर्शनात् ,यजातिसमन्वितं हि यदुपलभ्यते तत् तन्मयकारणसम्भूतम् , यथा-घटशरावादयो मृजात्यन्विता मृदात्मककारणसम्भूताः, 'बीजादिकं विद्यमानकार्यकं कारणत्वाद्' इत्येवंरूपः ‘करणं न भवेद्' इति प्रसङ्गस्य विपर्ययः। उपसंहरति- इति सिद्धमिति। प्रधानादेव मेहदादीनां प्रादुर्भावा नान्यस्मात् कारणादित्येतदसहमानस्य परस्याशङ्कां समाधातुमुपन्यस्यति- स्यादेतदिति । एवं हि असदकरणादि. हेतुपञ्चकैः। समाधते- उच्यत इति। " मेदानां०" इति साङ्घकारिकां विवृणोति- भेदानामिति । परिमागं परिमितत्वम् तत् स्पष्टपति- एका बुद्धिरिति- 'बुद्धयाइय एककारणकाः परिमितत्वाद् घटादिवद्' इत्यनुमानमत्राभिमतमावेदयितुमाह- तत इति- मेवानां परिमितत्वा दित्यर्थः। तत्कारणं महदादिभेदकारणम् । तदेव प्रधान परिमितानां बुद्धयादीनां यदेवाऽपरिमितमेकं कारणं तत् प्रधानं प्रकृतिर्भवतीति। . समन्वयाख्यद्वितीयहेतुतः प्रधानं साधयति-तथेति । 'समन्वयाद्' इत्यस्य फलितार्थकथनम्- ‘कारणजात्यनुवृत्तिदर्शनाद् ' इति । 'बुद्धयादयः सुख-दुःख-मो हात्मककारणसम्भूताः सुखदुःखमोहात्मकत्वाद्' इति विशेषानुमानेऽभिमते साध्य-साधनविशेषयोरविनाभावस्य कुत्रापि दृष्टान्ते ऽदर्शनेन साध्य साधनसामान्यव्याप्तिमेवोपदर्शयति- यजाती