________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ ३३३
कारित्वाभ्युपगमे च कारणानामशक्यकारित्वमेवाभ्युपगतं स्यात्, तच्चातिप्रसङ्गादयुक्तमिति शक्तिप्रतिनियमादसत्कार्य प्रतिनियम इत्यनुत्तरम् ; एतेन ' शक्तस्य शक्यकरणाद्' इति ४ चतुर्थी हेतु - व्यख्यातः ।
1
" कार्यस्यैव न योगाच्च, किं कुर्वत् कारणं भवेत् ? । ततः कारणभावोऽपि, बीजादेर्न विकल्प्यते " ॥ [ इति पञ्चमहेतुसमर्थनस्यार्थः- यथोक्तहेतुचतुष्टयादसत्कार्यवादे सर्वदा कार्यस्यायोगात् किं कुर्यद्बीजादि कारणं भवेत् ? तथा चैवं शक्यते वक्तुम् न कारणं बीजादिकमविद्यमानकार्यत्वाद् गगनाब्जवत्, न चैवम्, तस्माद् विपर्यय इति सिद्धं प्रागुत्पत्तेः कार्यं सत् । कमपि कुर्यादित्यतिप्रसङ्गभात्या कारणानामशक्यक्रियकारित्वं नाभ्युपगन्तुं युकमित्यर्थः । यदा चाशक्यक्रियेऽसति कार्ये शक्तिरेव कारणस्य न सम्भवति तहिं सुतरां शक्तिप्रतिनियमादसत्कार्यप्रतिनियमो न सम्भवतीत्याह- इति शक्तिप्रतिनियमादिति । यदर्थमुक्तशङ्काप्रतिविधानगुम्फनं तं प्रकृतमर्थमनुसरति - एतेनेति - शक्तिप्रतिनियमादसत्कार्यप्रति नियमासम्भवेनेत्यर्थः, अस्य ' वाख्यातः' इत्यनेनान्वयः । 'कारणभावाच इति पञ्चमहेतुसमर्थनायाह- कार्यस्यैवेति । इति पञ्चहेतुसमर्थनस्य “ कार्यस्यैवः ' इत्यादिस्वरूपपद्यस्य 'कारणभावाद्' इति पञ्चम हेतुसमर्थन परस्य । अर्थः ' प्रदइर्यते ' इति शेषः । यथोक्तेति- 'असदकरणाद्०' इत्याद्युक्तेत्यर्थः । हेतुचतुष्टयात् असदकरणम्, उपादानग्रहणं सर्वसम्भवाभावः शक्तस्य शक्धकरणमित्येवं हेतुचतुष्टयात् । 'कार्यस्यैव न योगाद्' इत्यस्यार्थकथनम्- 'असत्कार्यवादे सर्वदा कार्यस्यायोगाद् इति तत्र च हेतुः - 'यथोक्तहेतुचतुष्टयाद्' इति । उत्तरार्धफलितार्थकथनम्तथा चेत्यादिना वक्तव्यमेवोपदर्शयति- न कारणमिति । न चैवं बीजादिकं न कारणमिति, न च अर्थाद बीजादिकं कारणमेव तस्माद् विपर्ययः
>