________________
३३२ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् क्रियम् । न च प्रागसदपि सामग्रीसम्पत्तौ सदवस्थाप्रतिपत्तेविक्रियत इति शक्यक्रियम् ? तस्य विकृताविष्यमाणायां निरुपाख्यास्माऽसद्रूपहानिप्रसङ्गात् , नासतः स्वभावापरित्यागे सद्रूपतापत्तियुक्ता, परित्यागे वा नासदेव सद्रूपता प्रतिपन्नमिति सिद्धयेत् , अन्यदेव हि सद्रूपमन्यच्चाऽसद्रूपम्, परस्परपरिहारेण तयोरवस्थितस्वात् , तस्माद् यद् असत् तद् अशक्यक्रियमेव, तथाभूतकाये'अनाधेयातिशयत्वाद् ' इति हेतुः। शशविषाणवदिति- यथा शशविषाणमसदित्यनुपाख्यत्वादनाधेयातिशयम् , तत्त्वाचाशक्यक्रियं न केनापि कत्तु शक्यते तथेत्यर्थः। ननु पूर्वमसदपि सामग्रीसम्पत्त्या सदवस्थाप्राप्त्या विक्रियामामोतीति शक्यक्रियं भवतीत्याशङ्कय प्रतिक्षिपतिन चेति । निषेधे हेतुमाह- तस्येति-प्रागसतः कार्यस्येत्यर्थः, संस्थानाद्यवाप्तिलक्षणविकाराभ्युपगमे तस्य यथाविधधर्मवत्वेन सोपाख्यत्वतो निरुपाख्यलक्षणस्याऽसद्रूपस्य हानिः प्रसज्यते, ततो नाऽसतो विकृतिसम्भव इत्यर्थः। विकृतावसद्रूपहानिप्रसङ्गो योऽभिहितस्तदुपपादनायाह- नहीति- अस्य 'उक्ता' इत्यनेनान्वयः। ननु पूर्वमसदपि निरुपाख्य लक्षणस्वस्वभावं परित्यज्यैव सद्रूपतामाप्नोतीत्यत आहपरित्यागे वेति । असत्स्वभावपरित्यागें वेत्यर्थः, तथा चासत्स्वभावपरित्यागे तदानीं नासदिति नासदेव सद्रूपताप्रतिपन्नम् , किन्त्वन्य. देव असत् , अन्यच्च सद्रूपताभाजनमिति । एतदेव स्पष्टयति- अन्यदेवेति। हि यतः। कथं सद्रूपाऽसदूपयोरन्यत्वमित्यपेक्षायामाहपरस्परपरिहारेणेति- यन्न सत् तदसत् , यन्नाऽसत् तत् सदित्येवं परस्परव्यवच्छेदेनेत्यर्थः । तयोः सद्रूपाऽसद्रूपयोः। एवं च असद्रूपं विक्रियां नाप्नोत्येवेत्यनाधेयातिशयस्य तस्य न शक्यक्रियत्वमित्युपसंहरतितस्मादिति । भवत्वसदशक्यक्रियम्, एवंविधमपि तत् करोतु कारण. मित्यत आह- तथाभूतेति अशक्यक्रियेत्यर्थः। तच्च कारणानामशक्यकारित्वं च, यद्यशक्यक्रियमपि कार्य करोति कारणं तर्हि शशशृङ्गादि