________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ ३३१
प्रसङ्ग उक्तः, सम्प्रति तु कार्य मुखेनेति विशेषः, न च सर्वं सर्वतो भवति, तस्मादयं नियमः, तथैव तस्य सद्भावादिति गम्यते ३ | स्यादेतत्' कारणानां प्रतिनियतेष्वेव कार्येषु शक्तयः प्रतिनियताः तेन कार्यस्याsसवेऽपि किञ्चिदेव कार्य क्रियते, न नमोनलिनम्, किश्चिदेवोपादानमुपादीयते यदेव समथम्, किश्चिदेव च कुतश्चिद् भवति न तु सर्वं सर्वस्मादिति नोक्तप्रसङ्गेभ्य सत्कार्यसिद्धि:' इति, असदेतत्यतः शक्ता अपि हेतवः कार्यं कुर्वाणाः शक्यक्रियमेव कुर्वन्ति नाशक्यक्रियम्, असच्च कार्य शशविषाणवदनाथेयातिशयत्वादशक्यपरिहरति न चेति । तस्मात् सर्वस्मात् सर्वसम्भवाभावात् । अयं नियमः तन्तुभ्य एव पटस्यैव सम्भव इति नियमः । तत्रैव तस्य तद्भावात् तन्तुष्वेव पटस्य सद्भावात् । शक्तस्य शक्यकरणाद्' इति चतुर्थहेतुसमर्थनाय पराशङ्कां तावदादावुपन्यस्यति - स्यादेतदिति- 'यदि कारणात्मनि कार्ये न स्यात् सर्वस्मात् सर्वं स्याद्' इति प्रसङ्गो योऽभिहितः स न सम्भवति, असत्त्वाऽविशेषेषु प्रतिनियत एव कार्ये प्रतिनियतस्य कारणस्थ शक्तिः, न तु नभोनलिनादिके शक्तिः कस्यापि कारणस्येति न नभोनलिनादिकं कुतोऽपि कारणाद् भविटुमुत्सहते, न तु पटशक्ततन्त्वादिकारणात् पटस्येव घटादेरप्युत्पत्तिः, एवं यदेव कारणं यत्र कार्ये शतं तत्कार्यार्थ तदेव कारणमुपादीयते, अन्यत् तु तत्रासमर्थत्वादेव नोपादीयते, यदेव च यत्र समर्थ समर्थात् ततस्तस्यैवाऽसतोऽपि सम्भवो नान्यस्येति न सर्वस्मात् सर्वसम्भवप्रसङ्गोऽपीति नोकप्रसङ्गेभ्यः सत्कार्यसिद्धिरिति शङ्कार्थः । यच्चाऽशक्यक्रियं तस्य समर्थादपि कारणान्न सम्भवः, यथाऽशक्यक्रियस्य शशशृङ्गादेर्न कस्मादपि सम्भवः अशक्यक्रियमेव च पूर्वम सन्तयाऽभ्युपगतं कार्यमिति न तस्य समर्थादपि कारणादुत्पत्तिसम्भव इत्याशयेनोक्ताशङ्कां प्रतिक्षिपति - असदेतदिति । 'असच कार्यम्' इत्यस्य 'अशक्यक्रियम्' इत्यनेन सम्बन्धः, असतोऽशक्य क्रियत्वे
(