________________
३३० ]
[तत्त्वबोधिनीविवृतिविभूषितम् पुरुषाणां प्रतिनियतोपादानग्रहणं न स्यात् , शालिफलार्थिनश्च शालिबीजमेवोपाददते, न कोद्रवबीजम् शालिबीजादिषु शालिफलादीनामसत्त्वे च तद्वत् कोद्रवबीजानामपि ग्रहणप्रसङ्गः, न चैवं भवति, तस्मात् तत्र तत्कायेमस्तीति गम्यते २। तथा यद्यसदेव कार्यमुत्पद्यते तदा तृण-पांस्वादेः सर्वस्वर्ण रजताद्युत्पतिप्रसङ्गः, पूर्व कारणमुखेन यदि पटो न स्यात् तहिं यथा तन्तुषु पटो नास्ति तथा कपालादिप्वाप पटो नास्तीत पटार्थो तन्तूनेवोपादत्ते न कपालादीनिति नियतकारणोपादानं नैव भवेत् , पटाऽसद्भावाऽविशेषात् तन्तूनामिव कपालादीनामपि तदर्थमुपादानं स्यात्, नैव वा कपालादीनामिव तन्तूनामप्युपादानं स्यादिति प्रतिनियतोपादानग्रहणादुत्पत्तितः प्रागपि कारणात्मनि कार्यमस्तीत्यभिप्रायकम् ‘उपादानग्रहणाद्' इति हेतु समर्थयति- तथेति । प्रतिनियतोपादानग्रहणमेव स्यष्टयतिशालिफलार्थिनश्चेति । उत्पत्तितः प्राक् कार्याऽसत्त्वे तु प्रतिनियतोपादानग्रहणानुपपत्ति भावयति- शालिबीजादिष्विति । तद्वदिति-शालिफलार्थिनः शालिबीजग्रहणवदित्यर्थः । उकप्रसङ्ग इष्टापत्ति परिहरति- न चैवमितिशालिफलाथिनः शालिबीजग्रहणवत् कोद्रवीजग्रहणं न भवतीत्यर्थः। तस्मात् प्रतिनिय सोपादानग्रहणात् । तत्र शालिबीजादिषु । तत्काय शालिबीजकार्य शालिफलादिकम् । यद्यसदेव कार्य कारणाद् भवेत् तदाऽसत्त्वाविशेषात् तन्तुभ्यो यथा पटो भवति तथा घट दिरपि स्यादिति सर्वस्मात् सर्वस्योत्पत्तिप्रसङ्गः, न च भवति सर्व सर्वस्मादिति यदेव कार्य यत्र कारणे तरमात् कारणात् तस्यैव कार्यस्य भाव इति सत्कार्यसिद्धिरित्यभिप्रापकं सर्वसम्भवाऽभावाद् ' इति हेतुं विवृणोति-तथेति । 'उपादानग्रहणाद्' इति हेतौ तत्कारणस्योपादानवत् तदन्यस्याप्युपादानं स्यादिति कारणमुखेन प्रसङ्ग उपदर्शितः, 'सर्वसम्भवाभावाद्' इति हेतौ च प्रतिनियतकायोत्पादवत् तदन्यकार्यस्याप्युत्पादप्रसङ्ग इति कार्यमुखेन प्रसङ्ग इत्यनयोरेकेनाऽपरस्य न गतार्थता, उक्तदिशा विशेषसद्भावादित्याह- पूर्वमिति। प्रसङ्गे इष्टापत्ति