________________
भनेकातिव्यवस्थाप्रकरणम् ]
[ ३२९ " असदकरणादुपादानग्रहणात् सर्वसम्भवाऽभावात् । सशक्तस्य शक्यकारणात, कारणभावाच्च सत्कार्यम्"।
[साङ्ख्यकारिका-९ ] यद्यसत् क्रियेत, तदा नभोनलिनमपि क्रियेत, न चैवं भवति, तस्माद् यत् क्रियते तिलादिभिस्तलादिकार्य तत् तस्मात् प्रागपि शक्तिरूपेण सिद्धम्, व्यक्तिरूपेण तु तत् तदा कापिलैरपि नेष्यते, इति न व्यवहारबाधः १। तथा यधसत्कारणे कार्य भवेत् तदा शयेनाह- अत्रेति- कारणात्मनि कार्यमस्तीति प्रतिज्ञात इत्यर्थः । इदम् “असदकरणाद्" इत्यादिनाऽनन्तरमेव वक्ष्यमाणम्। 'कार्यमुत्पत्तितः प्रागपि कारणात्मनि सद्' इति प्रतिज्ञा, : असदकरणाद्' इत्यादिकं तत्र हेतुवचनम् । असतः शशशुङ्गादेः कदाचिदपि केनापि कारणेन करणम्- उत्पादनं न भवति, तद् यदि कार्यत्वेन सम्मतं घट-पटादिकमपि स्वकारणे कपाल तन्त्वादावुत्पत्तितः प्रागसदेव भवेत् , ततस्तस्यापि करणं न स्याद्, भवति च तस्य करणम् , अत उत्पत्तितः प्रागपि कारणात्मनि तदस्तीत्यभिप्रायेणोक्तम् 'असदकरणाद्' इति हेतुं भावयति- यद्यसत्क्रियेतेति । न चैवं भवति असतो नभोनलिनस्य करणं न भवति। तस्मात् असतोऽकरणात् । तत् तैलादिकार्यम् , तस्मात् तैलायुत्पत्तिकालात्। शक्तिरूपेण कारणा स्मतालक्षणशक्तिरूपेण । व्यक्तिरूपेण तैलादिविशिष्टसंस्थानाविर्भावलक्षणव्यक्तिरूपेण ! तत् तैलादिकम् । तदा तैलादिस्वरूपाविर्भावपूर्वकाले। कापिलैरपि सत्कार्यवादिभिः साङ्ख्यैरपि, अपिना असत्कार्यवादिभिस्तु शक्तिरूपेणाऽपि तदानीं तदनभ्युपगच्छद्भिर्व्यक्तिरूपेण सुतरां नेष्यत इत्यस्य सूचनम् । इति न व्यवहारबाधः एतस्मात् कारणादुत्पत्तितः प्राग् यः कार्यस्यासत्त्वव्यवहारस्तस्य न बाधा, तदानीं तदसत्त्व. व्यवहारस्य व्यक्तिरूपेण तदसत्त्वविषयकत्वाद् व्यक्तिरूपेण तदसत्त्वस्य भाषादुपपद्यत पव तथा व्यवहार इति एवं तन्तुषूत्पत्तितः प्राप