________________
-३२८ ]
[ तत्वबोधिनीधिवृत्तिविभूषितम्
न परमार्थतस्ताप्येऽपि प्रकृति - विकृतिभेदेन तयोर्भेदाऽवि रोधात् विकाराणां स्वभाव तत्रैगुण्यरूपेण प्रकृतिरूपत्वेऽपि सच्च-रजस्तमसात्कटत्व विशेषान्महदादिभेदेन सर्गवैचित्र्यसिद्धेः, वैधर्म्य तन्न तु भेद इति कारणात्मनि कार्यमस्तीति प्रतिज्ञातं भवति । अत्रेदं हेतु कदम्बमुद्भावयन्ति -
मेति । तद्रूप्येऽपि महदादेः प्रकृत्यात्मकत्वेऽपि । प्रकृति-विकृतिभेदेन प्रधानं प्रकृतिः, महदादिकं विकृतिरित्येवं प्रकृति-विकृतिभेदेन । . तयोः प्रधान महदाद्योः । ताद्रूप्ये सति भेदः कथमित्यपेक्षायामाह - विकाराणामिति - महदादीनामित्यर्थः । स्वभावत इति- प्रतिक्षेपं सत्त्वं सत्त्वरूपेण परिणमते, रजो रजोरूपेण, तमस्तमोरूपेणेत्येवं यः स्वभावः कारणगतः स कार्येऽपि, तस्मादित्यर्थः । त्रैगुण्यरूपेणेतिनिरुक्तस्वभावतस्त्रैगुण्यं यथा प्रकृत्यवस्थायां तथा त्रिकृत्यवस्थायामपीति तेन त्रैगुण्यरूपेणेत्यर्थः । प्रकृतेः प्रकृतिरूपत्वं सत्त्व-रज- स्तमोरूपत्वम्, तच विकृतावपि, पतावांस्तु विशेषः प्रकृत्यवस्थायां गुणानां समभावेन व्यवस्थानं विकृत्यवस्थायां तु विषमभावेनेति सम-विषमः भाचाऽविवक्षयोभयोरपि त्रैगुण्यरूपेणैकत्वमिति कृत्वा प्रकृतिरूपत्वेइपीति । सात्विक - राजस- तामसभेदेन बुद्ध्यादिनां त्रैविध्यम्, तत्र यस्मिन् बुद्धयादौ रजस्तमोगुणद्वयापेक्षया सत्वस्योत्कटत्यं तत् साविकम् एवं राजस - तामसे अपि बोध्ये, तादृशोत्कटत्वविशेषतः साविक - राजस - तामसबुद्धयादिभेदेन सर्गवैचित्र्यसिद्धिरित्याहसत्त्वरजस्तमसामिति । अयं च वैधम्र्म्यात्मा भेदो न स्वरूपभेद इति तादृशवैधर्म्य सद्भावेऽपि कारणात्मत्वं कार्यस्य न विरुद्धयत इति कारणात्मनि कार्यमस्तीति प्रतिज्ञातं साङ्गय स्याऽनाबाधमित्याहवैधम्यं ह्येतदिति । कारणात्मनि कार्यमस्तीति प्रतिज्ञामात्रेण न सत्कार्यवादसिद्धिः, तथा सति कारणात्मनि कार्य नास्तीति प्रतिज्ञामात्रेणा: सत्कार्यवादोऽपि सिध्येदित्यतस्तत्र हेतुरवश्यमेवोद्भावनीय इत्या•
"
/