________________
भनेकान्तव्यवस्थाप्रकरणम् ]
[ ३२७ गच्छतीति कृत्वा लिङ्गं च व्यक्तम्, तथाहि-प्रलयकाले भूतानि तन्मात्रेषु लीयन्ते, तन्मात्राणीन्द्रियाणि चाहङ्कारे, सोऽपि बुद्धौ, सापि प्रधाने, न त्वेवमव्यक्तं कचिदपि लयं गच्छति; लीनं वाऽव्यक्तलक्षणमर्थ गमयति कार्यत्वादिति लिङ्गं व्यक्तम् , न त्वेवमव्यक्तम् , अकार्यत्वात् कार्योन्मुखरूपानुपलम्भेन तस्य कारणलिङ्गस्वाभावाच्च, सावयवं व्यक्तम् , शब्द-स्पर्श रूप-रस गन्धात्मकैरवयवैयुक्तत्वात् , न चैवमव्यक्तम् , तत्र शब्दादिव्यक्तीनामनुपलब्धेः, तथा यथा 'पितरि जीवति पुत्रो न स्वतत्रः' तथा व्यक्तं सदा कारणायत्तत्वात् परतन्त्रम्, नैवमव्यक्तम् , अकारणाधीनत्वात् , सर्वदा तस्येति ।। अव्यक्तमाश्रितं न भवति । तत्र हेतुः- अक. यत्वात् तस्येति-प्रधानस्याऽकार्यत्वान्न कस्मिन्नपि तदुत्पद्यत इत्यतोऽनाश्रितमित्यर्थः। लय. गामित्वलक्षणलिङ्गत्व-तदगामित्वलक्षणालिङ्गत्वाभ्यां तयोर्वलक्षण्यमित्याह- लयमिति । निरुक्तस्वरूपलिङ्गत्वमेव व्यक्तस्य भावयतितथाहीत्यादिना- कार्य कारणे विलीयत इति भूतानि कार्याणि कारणेषु तन्मात्रेषु लीयन्ते, एवमग्रेऽपि । अहङ्कारे 'लीयन्ते' इत्यनुकर्षः, एवमत्रेऽपि । सोऽपि अहङ्कारोऽपि, अत्र ववनविपरिणामेन ‘लीयते' इति सम्बन्धः, एवमग्रेऽपि । साऽपि बुद्धिरपि। उक्तस्वरूपलिङ्गत्वं न प्रधान इत्याह- न त्वेव मति । कार्यस्वरूपतया गमकत्वं लिङ्गत्वमिति पक्षान्तराश्रयणेन व्यक्तस्य लिङ्गत्वमव्यक्तस्थाऽलिङ्गत्वमुपपादयतिलीनं वेति । 'न त्वेवमव्यकम्' इत्यस्य समर्थनायाह- अक य वादिति। तस्य प्रधानस्य । सावयत्व निरवयत्वाभ्यां व्यक्ता-ऽध्यक्तयोर्वेलक्षण्यमुपपादयति- स वयवति । तत्र प्रधाने । परतन्त्रत्वा ऽपरतन्त्रत्वाभ्यां तयोलक्षण्यमावेदयति- तथेति । कारणायत्तत्वलक्षणं पारतन्त्रमव्यक्तस्य कारणाभावान्नास्तीत्याह- अकारणाधीनत्वादिति। समाधत्ते