________________
३२६ ]
[ तत्त्वबोधिनीविवृतिविभूषितम्
धानमिति न पौनरुक्त्यम्; तथा प्रधान- पुरुषौ यथा विभ्रुत्वेन व्याप्त्या वर्तते इति तौ व्यापिनौ, नैवं व्यक्तमिति तदव्यापि, यथा च संसारकाले बुद्ध्यहङ्कारेन्द्रियसंयुक्तं सूक्ष्मशरीराश्रितं व्यक्तं संसार, नैवमव्यक्तम्, तस्य विभुत्वेन सक्रियत्वायोगात्, बुद्ध्यहङ्कारादिभेदेन चानेकविधं व्यक्तमुपलभ्यते, नाव्यक्तम्, तस्यैकस्यैव सतस्त्रैलोक्य कारणत्वात्; आश्रितं च व्यक्तम्, यद् यत्रोत्पद्यते तस्य तदाश्रितत्वात् न त्वेवमव्यक्उम्र, अकार्थत्वात् तस्य; लयं न तु नैव, पतेन विपरीतमव्यक्तमित्युपवर्णितं भवति । 'कुतश्चिद्' इति स्थाने 'कुतश्चैतद् ? ' इति पाठो युक्तः, कुतः कस्माद्धेतोर्व्यक्तं हेतुम दित्यवधारितमिति पृच्छा । उत्तरयति - यतोऽनित्यम् अनित्यं हि हेतुमद् भवति, अनित्यत्वाद् वुद्धयादिकं हेतुमदित्यर्थः । अनित्यत्वमेव हेतुमत्त्वसिद्धये कुत उपदर्शितमित्यपेक्षायामाह - अन्यत इतिअनित्यत्वभिन्नादित्यर्थः । एतद्धेत्वभिधानम् कारिकायाम् ' अनित्यम् ' इति हेतुवचनम् । इति पतस्मात् कारणात् । न पौनरुक्त्थम् ' हेतुमद्' इत्यनेनाऽनित्यमेव वस्त्वभिधीयते, तदेव च ' अनित्यम्' इत्यनेनापीत्यर्थतो यत् पौनरुत्थं तद् ' हेतुमद्' इत्यस्य सिद्धये हेतुवचन' मेतद्, न तु स्वतन्त्र मेतदित्युपवर्णनेन सम्भवतीत्यर्थः । अव्यापि व्यक्तं व्यापि च प्रधानमित्येवं तयोर्वैलक्षण्यमित्याह - तथेति । तौ प्रधान- पुरुषौ । नैवं प्रधान - पुरुषाविव न व्यापि । तत् अव्यक्तम् । व्यक्तं सक्रियम्, प्रधानश्चाक्रिय इत्येवं सक्रियत्वाऽक्रियत्वाभ्यां व्यक्तप्रधानयोर्वैलक्षण्यमित्याह - यथा चेति । नैवमव्यक्तमिति - प्रधानं न तथा संसरणशीलमित्यर्थः । तत्र हेतुमाह तस्येति - प्रधानस्येत्यर्थः । बुद्धयादेर्व्यकस्यानेकत्वं प्रधानस्याऽव्यक्तस्यैकत्वमित्यनेकत्वैकत्वाभ्यां तयोर्वैलक्षण्यमित्याह - बुद्धयहङ्कारादिभेदेनेति । नाऽव्यक्तम् अव्यक्तं प्रधानमनेकविधं नोपलभ्यते । तस्य प्रधानस्य । आश्रितत्वा ऽनाश्रितत्वाभ्यामपि व्यक्ताSव्यक्तयोर्वैलक्षण्यमित्युपदर्शयति- आश्रितं चेति । न त्वेवमभ्यक्तम्
1