________________
मनेकान्तव्यवस्थाप्रकरणम् ]
[ ३२५ तस्मात् त्रैगुण्यादिना तद्रूपा एवं कार्यभेदाः प्रवर्तन्ते । यथोक्तम्
"त्रिगुणमविवेकि विषयः, सामान्यमचेतनं प्रसवधर्मि । व्यक्तं तथा प्रधानं, तद्विपरीतस्तथा च पुमान्"॥
[साङ्खयकारिका-११] इति । अथ यदि तद्रूपा एव कार्यभेदाः कथं शास्त्रे व्यक्ता-ऽव्यक्तयो_लक्षण्योपवर्णनम् ?
" हेतुमदनित्यमव्यापि, सक्रियमनेकमाश्रितं लिङ्गम् । सावयवं परतत्रं, व्यक्तं विपरीतमव्यक्तम्" ॥
. . [साङ्ख्यकारिका-१०] इति क्रियमाणं शोमेत ?। अत्र ह्ययमर्थ:-हेतुमत्- कारणवद् व्यक्तमेव, बुद्ध्यादीनामेव प्रधानादिहेतुमचात्, न त्वेवमव्यक्तं कुतश्चित् , यतः, अनित्यम् , अन्यतो हेतुमचाऽसिद्धरेतद् हेत्वभिकारणयोस्तादात्म्यमुपसंहरति- तस्मादिति । तद्रूपा एव प्रधानरूपा एव । उक्तार्थे साजयकारिकां संवादकतया दर्शयति- तदुक्तमिति । "त्रिगुणं० " इति कारिका निरूपितार्था एव । तद्विपरीतः त्रैगुण्याद्यभावात् प्रधान-व्यक्ताभ्यां विलक्षणः । तथा च व्यापकत्वादिना प्रधानसदृशश्च, पुमान् कूटस्थनित्यश्चेतनः पुरुषः ।।
ननु सायमते यदि प्रधानान्महदादेरभिन्नत्वमेव तर्हि साङ्ख्यशास्त्र एव तयोर्वैलक्षण्योपवर्णनसङ्गतमित्याशङ्कते- अथेति । तद्रूपा एवं कारणीभूतप्रधानात्मका एव । कथम् ' इत्यस्य 'शोमेत' इत्यने नान्वयः । शास्त्र साङ्ख्यग्रन्थे । वैलक्षण्योपवर्णनं "हेतुमद्" इत्यादिस्वरूपेण क्रियमाणम् कथं शोमेत इन्यन्वयः। " हेतुमद" इत्यादि. कारिकार्थमुपदर्शयति- अत्रेति- " हेतुमद्" इत्यादिकारिकायामित्यर्थः। व्यक्तमेव बुद्धद्यादिकमेव- अत्रेव हेतुमाह- बुद्धयःदीनामेवेति । एवकारव्यवच्छेद्यमुपदर्शयति-न विति। अव्यक्त प्रधानम् , एवं हेतुमत् ।