________________
३२४ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् व्यक्तम्' इति न शक्यते विवेक्तुं, किन्तु 'ये गुणास्तद् व्यक्तम्, यद् व्यक्तं ते गुणाः' इत्यविवेक्येवोभयम् , तथोभयमप्यविशेषतो विषयो भोग्यस्वभावत्वात् , सर्वपुरुषाणामविशेषेण भोग्यत्वात् , पण्यस्त्रीवद् , अचेतनं च सुख-दुःख-मोहावेदकत्वात् प्रसवधर्मि च, यतः प्रधानं बुद्धिं सामान्यं च जनयति, साप्यहङ्कारम् , सोऽपि तन्मात्राणीन्द्रियाणि च, तन्मात्राणि च महाभूतानि जनयन्तीति, ऽविवेकित्वेन तद्व्यवस्थापयति-किश्चेति । आकारतो विवेकस्वरूपमुपदर्य तदभावं भावयति- इमे इति । इति एवंरूपेण । विवेचनस्याऽशक्यत्वे किं स्यादिति पृच्छति-किन्विति । उत्तरयति- य इति, तथा चामेदेन ग्रहणमेवाविवेकित्वमन्तेन च सत्त्वादित्रिगुणस्वरूपप्रधानात्मकत्वं महदादेरित्याशयः। भोग्यस्वभावत्वेन विषयत्वं यथा प्रधानस्य तथा महदादेरपीति विषयत्वेन प्रधानात्मकत्वं महदादेरित्याह- तथेति । उभयमपि । प्रधानात्मककारण-महदादिकार्ये तदद्वयमपि । पण्यत्रोव इति-पण्यस्त्री यथा सर्वपुरुषाणामविशेषेण भोग्या तथैव तदुभयमपीत्यर्थः । सुखदुःखमोहावेदकत्वेन यथा प्रधानमचेतनं तथा महदादिकमपीत्यचेतनत्वेन तयोरैक्यमित्याहअचेतन चेति । सुखेति- “एकैव स्त्री रूप-यौवन लावण्यसम्पन्ना स्वामिनं सुखाकरोति, तत् कस्य हेतोः ? तं प्रति सत्त्वरूपगुणसमुद्भवात, सपत्नी१ःखाकरोति, तत् कस्य हेतोः ? ताः प्रति रजोगुणसमुद्भवात्, स्वमविन्दमानं जनान्तरं मोहर्यात, तत् कस्य हेतोः ? तं प्रति तमो. गुणसमुद्भवाद" इति वचनेनेकस्या अपिस्त्रियःसुख-दुःखमोहावेदकत्वं सत्त्वरजस्तमोगुणमयत्वेन रपष्टीकृतम् , तदृष्टान्तेन सर्वस्य पुरुषभिन्नस्य सुख-दुःख-मोहावेदकत्वमवगन्तव्यम् । प्रसवधर्मित्वेन प्रधा. नात्मकत्वं महदादेरुपदर्शयति- प्रसवधर्मि चेति । प्रसवमित्वमेव प्रधानादीनां स्पष्टयति-यत इत्यादिना । सोऽपि बुद्धिरपि । अहङ्कार 'जनयति' इत्यनुवर्तते, एवमग्रेऽपि । सोऽपि अहङ्कारोऽपि । कार्य