________________
अनेकान्तव्यवस्थाप्रकरणम् ]
यज्ज्ञानमात्रादेव सर्वेषां मुक्तिः, न तु वर्णाश्रमोचिताचारस्याप्यपेक्षा,
तदुक्तम्
" पञ्चविंशतितत्त्वज्ञो, यत्र यत) त्राश्रमे रतः । जटी मुण्डी शिखी वापि, मुच्यते नात्र संशयः " ॥ [ ] इति ।
महदादयश्च प्रधानात् प्रवर्तमाना न कारणादत्यन्तभेदिनो भवन्ति बौद्धाद्यभिमता इव कार्यभेदाः, किन्तु त्रैगुण्यादिना प्रधानात्मान एव, तथाहि - यथा प्रधानं त्रिगुणात्मकं तथा बुद्ध्यहङ्कार तन्मात्रेन्द्रिय-भूतात्मकं व्यक्तमपि त्रिगुणात्मकम्, कृष्णादितन्त्वारब्धपटादेः कृष्णादित्वस्यैवोपलम्भेन कारणगुणानुरूपगुणस्यैव कार्यस्य सिद्धेः । किञ्च ' इमे सत्त्वादयो गुणाः, इदं च महदादि यति - न त्विति । वर्णेति - ब्राह्मण-क्षत्रिय वैश्य शूद्राश्चत्वारो वर्णाः, ब्रह्मचर्य - गास्थ्य - वानप्रस्थ-संन्यासाश्चत्वारश्चाश्रमाः तेषां प्रत्येकं कर्तव्यत्वेन विहितस्याचारस्य प्रतिनियतस्यापि मुक्तौ नापेक्षेत्यर्थः । उक्तार्थे प्राचां सम्मतिमाह - तदुक्तमिति । ' जटी ' इति जटाधारिणां ब्रह्मचर्य - वानप्रस्थानां ग्रहणम् । ' मुण्डी ' इति संन्यासिनो ग्रहणम् । ' शिखी ' इति गृहस्थस्य ग्रहणम् । साङ्ख्यमते कार्यस्य कारणादभेद एव न तु भेद इत्याह- महदादयचेति । ' बौद्धा ० ' इत्यादिव्यतिरेकिदृष्टान्तः, तथा च बौद्धादिमते तथा कार्याणि कारणादत्यन्तभिन्नानिन तथा साङ्ख्यमते महदादिकार्य प्रधानरूपकारणतोऽत्यन्तभिन्नमित्यर्थः । यदि महदादयो न प्रधानादत्यन्तभिन्नास्तर्हि कीदृशास्ते ? इति पृच्छति किन्विति । उत्तरयति त्रेय दिनेति । महदादीनां त्रैगुण्यादिना प्रधानात्मत्वमेव प्रपञ्चतो दर्शयति - तथाहीत्यादिना । प्रधानस्य त्रिगुणात्मकत्वे तत्कार्यस्य महदादेरपि त्रिगुणात्मकत्वं कारणगुणानुरूपगुणकमेव कार्ये भवतीत्येतत्समर्थनेन व्यवस्थापयतिकृष्णा रीति । त्रिगुणत्वेन महदादिकार्यस्य प्रधानात्मत्वं व्यवस्थाप्या
[ ३२३