________________
सखिया
३२२ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् दापा, गन्धात् पृथिवी" इति, तदुक्तमीश्वरकृष्णेन
"प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद् गणश्च षोडशकः । तस्मादपि षोडशकात्, पञ्चभ्यः पञ्च भूतानि"।
[साङ्ख्यकारिका-२२] अत्र च 'महान् ' इति बुद्ध्यभिधानम् , बुद्धिश्च 'घटः पटः' इत्यायध्यवसायलक्षणा, अहङ्कारस्तु- 'अहं सुभगोऽहं दर्शनीयः' इत्याद्याकारः, मनस्तु सङ्कल्पलक्षणम् , यथा-कस्यचिद् बटोामान्तरे भोजनमस्तीति शृण्वतः सङ्कल्पः स्यात् 'यास्यामि, किं तत्र दधि स्याद्, उतस्विद् दुग्धम् ?' इति, तदयं बुद्ध्यहङ्कार-मनसां भेदो मन्तव्यः, महदादयः २३ प्रधान-पुरुषौ चेति पश्चविंशतिस्तत्त्वानि, मुपदर्शयति- तदुक्तमीश्वरकृष्णेनेति । प्रकृतेरित्यादिकारिकार्थो व्यक्तः । भत्र च उक्तकारिकायां च । प्रतिनियतकार्योपदर्शनेन बुद्धयादीनां लक्षणं क्रमेण प्रकटयति- बुद्धिश्चेत्यादिना- 'घटः पटश्च' इत्याद्य, ध्यवसायेन कार्येण लक्ष्यते बुद्धिः, यस्याऽयमध्यवसायः कार्यमन्तःकरणस्य, तदन्तःकरणमित्युक्ताध्यवसायलक्षणा बुद्धिरित्यर्थः। अहङ्कारस्त्विति- 'अहं सुभगोऽहं दर्शनीयः' इत्याद्याकारः परिणामो यस्मादन्तःकरणात् समुल्लसति तदन्तःकरणमहङ्कार इत्यर्थः । मनस्त्वितियस्मादन्तःकरणात् संकल्प उपजायते तदन्तःकरणं मन इत्यर्थः । संकल्पः कीदृशः समुल्लसतीत्यपेक्षायामाह- यथेति । तत्र ग्रामान्तरे। अन्तःकरणत्वाऽविशेषेऽप्युक्तकार्यवैलक्षण्याद् वुद्धयादीनां भेद इत्याहतदयमिति । एवं चोक्तदिशा साडयदर्शने पञ्चविंशतिस्तत्त्वानि, तज्ज्ञानाच्च मुक्तिरित्याह- महदादय इति- अत्रादिपदादहङ्कार पञ्चर तन्मात्रैकादशेन्द्रिय-पञ्चभूतानां ग्रहणम् , तेन त्रयोविंशतिर्महदादयः। यज्ज्ञानमात्रादेव-पञ्चविंशतितत्त्वज्ञानमात्रादेव। एक्कारव्यवच्छेद्यमुपदर्श