________________
गन्तव्यवस्थाप्रकरणम् ]
[ ३२१
"
स्तमसां साम्यावस्था लक्षणम्, ततः प्रथमं बुद्धिरुत्पद्यते, बुद्धेरहङ्कारः, अहङ्कारात् पञ्च तन्मात्राणि शब्द-स्पर्श रूप रस गन्धात्मकानि, इन्द्रियाणि चैकादशोत्पद्यन्ते तत्र श्रोत्र त्वक् चक्षुर्जिह्वाघाणलक्षणानि बुद्धीन्द्रियाणि पञ्च, वाक्पाणिपादपायूपस्थसंज्ञानि कर्मेन्द्रियाणि च पञ्च, एकादशं च मन इति, पञ्चभ्यस्तन्मात्रेभ्यः पश्च भूतानि शब्दादाकाशः, स्पर्शाद् वायुः, रूपात् तेजः, रसाउपष्टम्भकं चलं च, तमो गुरु वारणकं च, एवंस्वरूपाणां सत्त्वरजस्तमस् साम्यावस्थालक्षणम्- समभावेन यदवस्थानं तत्स्वरूपं प्रधानं प्रकृतिरित्युच्यते तच्च सर्वस्य कार्यस्य कारणमेव, न तु कस्यापि कार्यमतो मूलप्रकृतिरित्याख्यायते । ततः प्रकृतिस्वरूपात् प्रधानात् । प्रथमं न ततः पूर्वं कस्यापि कार्यस्याविर्भाव इत्यतः प्रथमम्, बुद्धिश्च प्रकृतिकार्यत्वाद् विकृतिः, अहङ्कारकारणत्वाच्च प्रकृतिरिति प्रकृतिविकृतिः । बुद्धेरहङ्कारः 'उत्पद्यते ' इत्यनुवर्तते, सोऽपि महतः कार्यत्वाद विकृतिः, तन्मात्रादिषोडशकार्यवर्गस्य कारणत्वात् प्रकृतिरिति प्रकृतिविकृतिः । अहङ्कारादित्यादि स्पष्टम्, केवलं शब्दादौ प्रत्येकं तन्मात्रयोजनया शब्द तन्मात्र स्पर्शतन्मात्र रूपतन्मात्र - रसतन्मात्र गन्धतन्माप्राणीत्येवं पञ्च तन्मात्राणि बोध्यानि । इन्द्रियाणामेकादशसंख्यक कथमित्यपेक्षायामाह - तत्रेति- इन्द्रियेषु मध्ये इत्यर्थः, अत्र पच तन्मात्राणि अहङ्कारकार्यत्वाद् विकृतिः, पञ्चाकाशादिभूतकारणत्वात् प्रकृतिरिति प्रकृतिविकृतिः, एकादशेन्द्रियाणि तु अहङ्कारकार्यत्वाद विकृतिः, न तु कस्यापि तत्त्वान्तरस्य कारणमिति न प्रकृतिः । पञ्चभ्यस्तन्मात्रेभ्यः पञ्चभूतानि - ' उत्पद्यन्ते ' इत्यस्याऽनुकर्षेणान्वयः । कस्मात् तन्मात्रात् कस्य भूतस्योत्पत्तिरित्यपेक्षायामाह - शब्दादितिशब्दतन्मात्रादाकाश उत्पद्यते, स्पर्शतन्मात्राद् वायुरुत्पद्यते, रूपतन्मात्रात् तेज उत्पद्यते, रसतन्मात्रादापः समुत्पद्यते, गन्धतन्मात्रात् पृथ्वी समुत्पद्यत इति । उक्तार्थे साङ्ख्याचार्यस्येश्वरकृष्णस्य सम्मति'
૨૧