________________
३२०]
__[ तत्त्वबोधिनीविवृतिविभूषितम् "जं काविलं दरिसणं, एयं दवट्ठियस्स बत्तव्वं" ॥
[सम्मति० का० ३ गा० ४८ ] इति द्रव्यार्थिकपदमत्र व्यवहारलक्षणा-ऽशुद्धद्रव्यार्थिकपरं द्रष्टव्यम्, शुद्धद्रव्यार्थिकप्रकृतेः सङ्ग्रहनयरूपाया वेदान्तदर्शनोत्पत्तिमूलताया उक्तत्वात् । तस्य चेयं प्रक्रिया- "महदादिकार्यग्रामजनकाशेषशक्तिप्रचितात् प्रधानादेव कार्यभेदाः प्रवर्तन्ते, तच्च सत्त्व रजस्वकपोलकल्पितमेवेदं प्रतिभासत इत्यतस्तत्र सिद्धसेनदिवाकरवचनं प्रमाणतयोपदर्शयति- यद् वादीति- यद् यस्माद् वादी वादिप्रकाण्डः सिद्धसेनदिवाकर एवमाहेत्यर्थः । “जं क विलं" इतियत् कापिलं दर्शनमेतद् द्रव्यार्थिकस्य वक्तव्यम् । इति संस्कृतम् ॥ द्रव्यार्थिकनयः शुद्धाशुद्धभेदेन द्विविधः, तत्र शुद्धद्रव्यार्थिकः सामान्यमात्रग्राही सङ्ग्रहः, अशुद्धद्रव्याथिको भेदग्राही व्यवहारः, स पव द्रव्यार्थिकपदेनात्र विवक्षित इत्याह- द्रव्यार्थिकपदमत्रेति । शुद्धद्रव्यार्थिकस्य द्रव्यार्थिकपदेन कुतो न ग्रहणमित्यपेक्षायामाहशुद्धद्रव्यार्थिकप्रकृतेरिति । ___ सायदर्शनमन्तव्यमावेदयति- तस्य चेति- साङ्ख्यदर्शनस्य चेत्यर्थः । इयं 'महादादि' इत्यादिनाऽनन्तरमेव वक्ष्यमाणा। प्रक्रिया मन्तव्यपरिपाटी । महदादीति-महच्छन्देन बुद्धयभिधानमन्तःकरणमुच्यते, अव्यक्तात् प्रधानात् प्रथमं व्यक्तस्वरूपा बुद्धिरेवोत्पद्यत इत्यतस्तस्य महच्छब्दवाच्यता, आदिपदादहङ्कारादेब्रहणम्, प्रकृतेः सर्वापेक्षया प्रधानत्वं महदाधशेषकायजननानुकूलशक्तिसमन्वितत्वादेवे. त्यावेदनाय 'महदादिकार्यग्रामजनकाशेषशक्तिप्रचिताद्' इति 'प्रधानाद' इत्यस्य विशेषणम् प्रधानमिति प्रकृतेः सज्ञा । प्रधानं किस्वरूपमित्यपेक्षायामाह-तच्चेति-प्रधानं चेत्यर्थः, । सत्वं लघु प्रकाशकं च, रज