________________
अनेकान्तव्यवस्था प्रकरणम् ]
[ ३१९
श्वेताद्यभावविषयकत्वोपगमात् तादृशशब्दस्थले च भावसत्यता - ग्राहकव्युत्पत्तिमहिम्ना श्वेतादिपदानामुद्भूतश्वेतादिपरत्वग्रहेण दोषाभावादिति दिग् ॥
,
अस्मान्नयादेकान्तनित्यचेतनाऽचेतन वस्तुद्वयप्रतिपादकं सांख्यदर्शनमुत्पन्नम्, यद् वादी
-
"
उद्भूतत्वेनं श्वेताद्यभाववान् भ्रमर इत्येवं पर्यवसितस्वरूपस्य 'भ्रमरो न श्वेतः' इत्याद्यध्यक्षस्योद्भूततया श्वताद्यभावविषयकत्वेन भ्रमरे श्वेतादिरनुद्भूत एवेत्युद्भूततया श्वेताद्यभाववति भ्रमरे उद्भूततया श्वेताद्यभावावगाहित्वेन तद्वति तत्प्रकारकत्वलक्षणलौकिकप्रामाण्यस्य तत्र सम्भवादित्यर्थः । तादृशशब्दस्थले च ' भ्रमरो न श्वेतः' इत्यादिशब्दस्थले च । भावसत्यतेति - अभिप्रायसत्यतेत्यर्थः 'भ्रमरो न श्वेतः' इति वाक्यप्रयोक्तुः पुंसः इदं वाक्यं भ्रमरे उद्भूतश्वेताभावं वोधयतु' इत्यभिप्रायः, तत्सत्यता ग्राहकव्युत्पत्तिःयद वाक्यं यदर्थवाञ्छयोच्चरितं तद्वाक्यस्य स एवार्थ इति, तन्महिम्ना तत्सामर्थ्येनेत्यर्थः । श्वेतपदस्योद्भूतश्वेतार्थकत्वं यदि नाऽऽश्रीयेत तदा वक्तुस्तात्पर्य नोपपद्येतेति तात्पर्यान्यथानुपपत्त्या श्वेतादिपदस्योद्भूतश्वेतादौ लक्षणाऽऽश्रीयत इति 'श्वेतादिपदमुद्भूतश्वेतबोधेच्छयोच्चरितम्' इत्येवं स्वरूपोद्भूतश्वेतादिपरत्वग्रहलक्षणतात्पर्यप्रहृतः श्वेतादिपदतो लक्षणावृत्तिग्रहजन्योद्भूतश्वेताद्यर्थोपस्थितिद्वारा 'उद्भूतश्वेताद्यभाववान् भ्रमरः' इत्येवंस्वरूपस्य तद्वति तत्प्रकारकत्वलक्षणप्रामाण्याकलितस्य शाब्दबोधस्य सम्भवेन दोषा
भावादित्यर्थः
व्यवहारनयसमुत्थं साङ्ख्यदर्शनमिति प्रतिपादयति- अस्मान्नयादिति - व्यवहारनयादित्यर्थः अस्य ' उत्पन्नम् ' इत्यत्रान्वयः । नन्वन्यत्र चार्वाक मतस्यैव व्यवहारनयसमुत्थत्वेन प्रतिपादनम्, भवता तु साङ्ख्यदर्शनमेव व्यवहारनयसमुत्थत्वेन प्रतिपाद्यत इति