________________
३१८ ]
[
तत्त्वबोधिनीविवृतिविभूषितम्
देशस्यव च दुर्नयत्वप्रयोजकत्वमिति न कश्चिद्दोष इत्यादि निर्णीतं नयरहस्यादावस्माभिः ।
अथवा 'वच्चइ०’[पत्र० २९१] इत्यादेर्लोकव्यवहारो विनिश्वयतः, तदर्थं व्रजति व्यवहार इत्यर्थः तथाहि - निश्चयनयमतेन भ्रमरादेः पञ्चवर्ण द्विगन्ध- पञ्चरसा-ष्टस्पर्शवत्वे सत्यपि यत्र कृष्णवर्णादौ जनपदस्य निश्चयो भवति तमेवार्थ व्यवहारनयः स्थापयति, न तु सम्मतमप्यन्यम्, तथैव लोकयात्रानिर्वाहात, न चैवं ' भ्रमरो न श्वेतः' इत्याद्यध्यक्ष शाब्दयोरतस्मिंस्तद्ग्राहकत्वेन लौकिकप्रामाण्यमपि न स्यादिति शङ्कनीयम्, 'न श्वेतः' इत्याद्यध्यक्षस्योद्भूततया
स्यैव इतरनयविषयप्रतिक्षेपमुख्योद्देशस्यैव । नयरहस्यादाविति - यद्यपि नयरहस्ये - "न चैवमितरांशप्रतिक्षेपित्वाद् दुर्नयत्वम्, तत्प्रतिक्षेपस्य प्राधान्यमात्र पवोपयोगात्, एतद्विषयविस्तरस्तु नाऽत्राऽभिधीयते ग्रन्थान्तरप्रसङ्गात् ” [पत्र० ३२] इत्येतावन्मात्रमभिहितम्, तथाऽपि ' नात्र' इत्युपादानतो ऽन्यत्र तद्विस्तारः कृत इत्यवगम्यत इति विशेषजिज्ञासुभिरस्मत्कृतग्रन्थान्तरमेतदुपपादकमवलोकनीयमित्येतत्तात्पर्यकमिदं वचनम्, अत एव 'नयरहस्यादौ' इत्यादिपदमुपात्तमिति । 66 'वच्चर विणिच्छयत्थं " [पत्र० २९१] इति सूत्रस्य व्याख्यान्तरमाहअथवेति । लोकव्यवहारार्थं व्यवहारनयो व्रजतीत्य मुमर्थमुपपादयतितथाहीत्यादिना । न स्विति - निश्चयनयसम्मतमपि भ्रमरादेः पञ्चवर्णादिकं व्यवहारनयो नैव स्थापयतीत्यर्थः । तथैव भ्रमरादेः कृष्णवर्णादिमत्वेनैव । लोकयात्रानिर्वाशत् लोकव्यवहारोपपत्तः । 'न च' इत्यस्य शङ्कनीयमित्यनेनान्वयः । एवं भ्रमरादेः पञ्चवर्णादिमत्त्वस्यापि निश्चयतो भावे । अतस्मिन् इत्रेतत्वाभावाभाववति भ्रमरे । तद्ग्राहकत्वेन श्वेतत्वाभावग्राहकत्वेन । निषेधे हेतुमाह-न श्वेत इति । उद्भूततयेति