________________
भनेकान्तव्यवस्थाप्रकरणम् ]
[३१७ ननु तथापि विसामान्यार्थयत्नो व्यवहारनयस्यानुपपन्ना, इतरार्थप्रतिक्षेपे नयत्वायोगादिति चेत् ? सत्यम्- दुर्नयावस्थायामेव तदुपपत्तेः, अथवा परेषां प्रमाणानुग्राहकतर्कस्येव विसामान्यार्थयत्नखात्र स्वार्थदाया॑यैवापेक्षा, न त्वितरांशप्रतिक्षेपमुख्योद्देशेन, तादृशो
प्रमाणेन 'स्यात् सद्' इत्येवंरूपेणार्थो मीयेत, तथा च 'स्यात् सन् घटः' इत्यादिकं प्रमाणवाक्यम् । स्तुत्यं भगवन्तं सम्मुखी. करोति- यथेति-हे भगवन् ! यथार्थदर्शी त्वं नय-प्रमाणपथेन दुर्नीतिपथम् , आस्थः- निराकृतवान्, इत्येवमन्वयः । अस्याऽभिप्रेतार्थों विस्तरतः स्याद्वादमञ्जरीतोऽवसेय इति ॥
ननु यदीतरनयविषयाप्रतिक्षेपिण एव नयास्तर्हि सङ्गहनयविषयसमान्यप्रतिक्षेपित्वे व्यवहारस्य नयत्वमेव भज्येतेत्यत: सामान्या. ऽभावार्थ यत्नो व्यवहारनयस्य न युक्त इत्याशङ्कते- नन्विति। तथाऽपि दुर्नीति-नय-प्रमाणेनिधाऽर्थस्य प्ररूपणेऽपि । विसामान्यार्थेतिसामान्याभावार्थेत्यर्थः । समाधत्ते- सत्यमिति । तत् किं विसामान्यार्थयत्नस्यानुपपन्नत्वमेवेत्यत आह - दुर्नयेति । तदुपपत्तेः विसामान्यार्थोपपत्तः, दुर्नयावस्थस्यैव व्यवहारस्य विसामान्यार्थ यत्नो न तु सुनयभावापन्नस्येत्यर्थः। व्यवहारस्य प्राधान्येन विषयत्वात् स्वविषयो विशेष एव, तस्य दाढर्य तदा भवेद् यदि सामान्यस्य गौणतया विषयत्वप्रयोजकं किश्चित् स्यादित्यतो विसामान्यार्थ यत्नो वस्तुतोऽनुपपन्नोऽप्याद्रियते, यथा पर्वते वह्नि-धूमयोः सद्भाव एव न त्वसद्भावः, एवमप्यनुमितिविषयस्य पर्वते वह्निसद्भावस्य दाार्थमारोपरूपस्यैव यदि वह्निर्न स्याद् धूमोऽपि न स्यादित्येवंरूपस्य पर्वतेऽसतोरेव वह्नयभाव-धूमाभावयोरावेदकस्य तर्कस्यादर इत्याह - अथवेति । परेषां नैयायिकादीनाम् । अत्र व्यवहारनये । स्वार्थदाढाय प्रधानया स्वविषयीभूतविशेषरूपार्थदाढर्याय। ताइशोद्देश