________________
३१६ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् 'स्यादस्त्येव द्रव्यार्थतः' इत्यादिरीत्या नयविषयं विभजेतेत्यर्थः ।
तस्मानय-प्रमाणात्मकमेकरूपमेवात्मस्वरूपं व्यवस्थितम् , तत्र कथं विशिष्टैकाध्यवसायलक्षणसमुदायार्थत्वोपपत्तिरिति चेत् ? सत्यम्'अपरित्यक्तेतररूपविषयाध्यवसाय एव समुदायः' इत्यत्रैकत्वस्याविवक्षितत्वादपरित्यक्तेतररूपविषय त्वस्यैव समुदायार्थस्य नय-प्रमाणसाधारणस्याभिप्रेतत्वात् सकलनयज्ञानं प्रमाणम् , तदेकदेशग्राहका इतराप्रतिक्षेपिणो नयाः, तत्प्रतिक्षेपिणश्च दुनया इति त्रैविध्यव्यवस्थानात् , तथा च स्तुतिकारः [श्रीहेमचन्द्रसूरिः]
“सदेव सत् स्यात् सदिति त्रिधार्थो, मीयेत दुर्नीति-नय-प्रमाणैः। यथार्थदर्शी तु नय-प्रमाणपथेन दुर्नीतिपथं त्वमास्थः ॥"
[ अन्ययोगव्यवछेदिका-श्लो० २८ ] इति । किमतिविस्तरेण। . यदीत्थं न विभजते सहि कथं विभजत इत्यत आह- पि विति । 'ननु विशिष्टस्यैकाध्यवसायस्य समुदायार्थत्वे' इत्यादिना प्रारब्धं पूर्वपक्षमुपसंहरति- तस्मादिति । समाधत्ते- सत्यमिति भत्र अध्यवसाये। यदा चकत्वं न विवक्षितमध्यवसाये तदा यदभीष्टं सिद्धयति तदाहसकलनयज्ञानं प्रमाणमिति । तदेकदेशग्राहकाः प्रमाणविषयीभूतवस्त्वेकदेशग्राहकाः । इतराप्रतिक्षेपिणः स्वविषयीभूतांशातिरिक्तांशाऽप्रतिक्षेपिणः। तत्प्रतिक्षेपिणश्च स्वविषयीभूतांशातिरिक्तवस्वंशप्रतिक्षेपिणः पुनः। इति त्रविध्यव्यवस्थापन त् प्रमाणं नयो दुनयश्चत्येवं त्रैविध्यस्य व्यवस्थितेः।
उक्तार्थे श्रीहेम चन्द्रसूरिभगवचनं संवादकतयोपदर्शयतितथा च स्तुतिकार इति- दुर्नीतितः 'लदेव' इत्येवंरूपेणाऽर्थो मीयेत, तथा च 'सन्नेव घटः' इत्यादिकं दुर्नयवाक्यम्, नयेन 'सद्' इत्येवंरूपेणार्थो मीयेत, तथा च 'सन् घटः' इत्यादिकं सुनयवाक्यम्,