________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ ३१५ तिर्यक्प्रचयेनेवोर्ध्वताप्रचयेनाऽपि सामूहिकव्यवहारक्षमकार्यसम्भवादात्मद्रव्यानुस्यूतनय प्रमाणात्मकचैतन्यमप्रत्यूहमिति भावः॥
एतदेवाह"णिययवयणिजसच्चा, सव्वणया परवियालणे मोहा । ते पुण ण दिवसमओ, विभयह सच्चे व अलिए वा॥"
सम्मति० का० १, गा० २८] निजकवचनीये-स्वांशे परिच्छेद्ये, सत्या:-सम्यग्ज्ञानरूपा,. सर्व एव नया:-सङ्ग्रहादयः, परविचालने-परविषयोत्खनने, मुह्यन्तीति मोहा:-मिथ्याप्रत्ययाः, परिविषयस्यापि सत्यत्वेनोन्मूलयितुमशक्यत्वात् , तदभावे स्वविषयस्याप्यव्यवस्थितेः, कस्मात् तानेव नयान्, पुनःशब्दस्यावधारणार्थत्वाद् , दृष्टसमयः- निर्णीतानेकान्ततत्त्वः, सत्यान् वाऽलीकान्वा न विभजते, अपितु प्रमाणावस्थायांसापेक्षतया.
चैतन्यमूर्खतासामान्यमिति तदात्मकमिकज्ञानसमूह ऊर्वताप्रचयः, तेनापि सामूहिकव्यवहारक्षमकार्यस्य सम्यइनय-प्रमाणस्वरूपस्य सम्भवादात्मद्रव्यानुस्यूतनय-प्रमाणात्मकचैतन्यमविनितरूपमित्यर्थः। ____ उक्तार्थसंवादिनी सम्मतिगाथामुपदर्शयति- एतदेवाहेति। "णियय." इति- “निजकवचनीयसत्याः सर्वनयाः परविचालने मोहाः। तान् पुनर्न दृष्टसमयो विभजते सत्यान् वाऽलीकान् वा" ॥ इति संस्कृतम्। विवृणोति- निजकवचनीय इति- अस्थार्थकथनम्- स्वांशे परिच्छेद्ये इति, एवमग्रेऽपि । पविषयोत्खनने कथं नयानां मिथ्याप्रत्ययत्वमित्यपेक्षायामाह- परविषयस्यापीति-परनयविषयस्यापोत्यर्थः। तदभावे परनयविषयाभावे । 'तान् पुनः' इत्यत्रावधारणार्थकस्यैवकारस्याभावात् तानेव नयानित्यर्थः कथमत आह- पुनःशब्दस्येति ।