________________
३१४ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् समूह परिणामोभयकृतत्वेऽपि विकल्पाभिधानं लौकिकव्यवहारापेक्षया, ते-रत्नादयः, तदेव-आवल्यादिकमेव, तद्-दध्यादिकम् , न तदेव-न क्षीरादिकमेवेति, नियमेन मिथ्यात्वम् , सत्कार्यवादे कारणव्यापारवैफल्यप्रसङ्गात् , असत्कार्यवादे च क्षीरादिकमेव दध्यादित्वेन परिणतमिति व्यवहारविलोपप्रसङ्गात् , सदसत्कार्याभ्युपगमे च
श्रीरादिकृतस्तत्परिणामकृतश्चेत्येवमविशेषेऽपि यद् विकरपेनाभिधानं तल्लोके रत्नावल्यादीनां समूहकृतत्वेन व्यवहारः, ध्यादीनां च परिणामकृतत्वेन व्यवहार इति लोकिकव्यवहारापेक्षयेत्याह-वस्यैवेति । तत्र कारणमेव कार्यमिति सत्कार्यवादिमतमपि मिथ्या, कार्य कारणाद् भिन्नमेवेत्यसत्कार्यवादिमतमपि मिथ्येत्युपदर्शनपरं मूलं विवृणोति- त इति। तच्छब्देन रत्नादीनां परामर्शमाश्रित्याहरत्नादच इति । तदेव' इति तच्छब्देन रत्नावलीपरामर्शमभिप्रेत्याहभावल्यादिकमेवति, एवमग्रेऽपि। रत्नादिकमेव रत्नावल्यादिमिति सत्कार्यवादे सम्भवदाक्तकम् , सत्कार्यवादश्च कारणव्यापारवैफल्यप्रसङ्गतो न युक्त इति तस्य मिथ्यात्वामत्याह- सत्कार्यवादे इति । दध्यादिकं क्षारादिकं नेति वचनमसत्कार्यवादमवलम्ब्य शोभते, असत्कार्यवादश्च क्षीदिकमेव दध्याधिरूपेण परिणतमिति व्यवहारविलोपप्रसङ्गतो न युक्त इति तदपि मिथ्येत्याह- असत्कार्यवादे चौत। तदेवमेकान्तवादः सर्वोऽपि मिथ्येति तत्र दृष्टान्तस्य साध्यसमता न दोषपोषाय, किन्त्वनेकान्तवादिनः सदसत्कार्यवाद एव युक्तः, तत्र रत्न-रत्नावल्योभिन्नाभिन्नत सुव्यवस्थिमिति तद्दृष्टान्तेनैकाऽनेकस्वरूपनय-प्रमाणचैतन्यमपि व्यवस्थितमित्यभिप्रायवानाह- सदसत्कार्याभ्युपगमे चेति-रत्नत्वादेस्तिर्यक्सामान्यत्वाद् रत्नसमूहो नानातिर्यक्सामान्यशालित्वेन तिर्थक्प्रचयः, तेन सामूहिकन्यवहारक्षमकार्य रत्नालिस्वरूपं यथा भवति तथा उत्तरोत्तरपर्यायानुगामित्वा.