________________
भनेकान्तव्यवस्थाप्रकरणम् ]
[३१३ कारणं कार्यरूपेण परिणमते, किन्तु तत्र पृथग्भूतमेव कार्य सामग्रीत उत्पद्यते इति वैशेषिकादयः । न कार्य कारणं वाऽस्ति द्रव्यमानमेव तत्वमित्यपरे । इति नानाविधाभिप्रायवदेकान्तवादिमते दृष्टान्तस्य साध्यसमतेत्य आह
" इहरा समूहसिद्धो, परिणामकओ व जो जहिं अत्थो। . ते तं व ण तं तं चेव त्ति णियमेण मिच्छत्तं ॥"
[सम्मति० का० १, गाथा० २७] इतरथा उक्तप्रकारानभ्युपगमे, समूहसिद्धः- रत्नावल्यादिः, परिणामकृतो वा-क्षीरादिषु दध्यादिर्यः, यत्रार्थः, सर्वस्यैव परमाणुउशन्तीत्यर्थः। दृष्टान्तस्य रत्नावलीरूपदृष्टान्तस्य। साध्यसमता साध्यस्यैका-ऽनेकरूपप्रमाणचैतन्यस्य यथाऽसिद्धता तथाऽसिद्धता। " इहग." इति- "इतरथा समूहसिद्धः परिमाणकृतो वा यो यत्रार्थः। ते तदेव न. तत् तदेवेति नियमेन मिथ्यात्वम्"॥ इति संस्कृतम् । विवृणोति- इतरथेति । अस्यार्थः- उक्तप्रकारानभ्युपगमे, रत्नीयसन्निवेशविशेषस्य सन्निवेशविशेषविशिष्टानां वा रत्नावलीशब्दवाच्यत्वमित्यस्यानभ्युपगमे इत्यर्थः, समूहसिद्धः रत्नावल्यादिः सायमते रत्नादिरूपकारणे रत्नावल्यादिकार्यमवतिष्ठत एवेति कृत्वा रत्नादिसमूह पव रत्नावल्यादिरित्यर्थः। परिणामकृतो वेति- साङ्ख्यविशेषमते रत्नादिरेव रत्नावल्यादिरूपेण परिणमत इति कृत्वा 'परिणामकृतो वा' इति। एतत्सुस्पष्टाधिगतये आह-क्षीरादिध्विति-क्षीरादिकं दध्यादिरूपेण परिणमत इति क्षीरादिषु दध्यादिः परिणामकृत इति । 'यः, यत्रार्थः' इत्यनेन व्याप्तिरभिमता- उक्तदिशा यो यत्रार्थः स तत्समूहकृतः परिणामकृतो वेति । रत्नावल्यादिरपि रत्नादि. समूहकृतो रत्नादिपरिणामकृतश्च; दध्यादिरपि परमाणुसमूहरूप