________________
३१२ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् ___ रत्नादिकारणेवावल्यादिकार्य सदेवेति साङ्ख्या, तेषामेवानेन रूपेण व्यवस्थितत्वात् , तदव्यतिरिक्तं विकारमात्रं कार्य परिणमत एवेति सांख्यविशेषः । न खलु कार्य कारणे प्राग् उत्पत्तेर्विद्यते, नवा भावात् । प्रतिक्षेपहेतुमाह- प्रमाणस्येति । सर्वथा साम्य इति- अन्यत्रापि यावन्मात्रप्रसिद्धयर्थ दृष्टान्तोपादानं तावन्मात्रेणैव दृष्टान्त-दाष्टान्तिकयोः साम्यम , यथा- 'पर्वतो वह्निमान् धूमाद्' इत्यादौ पर्वते धूमवत्वेन वह्निप्रसिद्धयर्थ महानसरूपदृष्टान्तोपादानम्, यथा धूमवस्वान्महानसे वह्निरस्ति, एवं पर्वतेऽपि धूमवत्त्वाद् वह्निरिति, एतावन्मात्रेणैव तयोः साम्यम् , पर्वते पर्वतत्वं न तु महानसत्वम्, महानसे महानसत्वं न तु पर्वतत्वमिति वैषम्यं तयोरपि समस्येव, अन्यथा धर्ममात्रेण साम्ये भेदप्रयोजकस्य विरुद्धधर्माध्यासस्याभावात् सर्वथैक्यमेव दृष्टान्त-दान्तिकयोरिति भेदनिबन्धनदृष्टान्त-दार्शन्तिकभावानुपपत्तिः स्यात् , तथा प्रकृतेऽपीत्याशयः ॥
अत्र सत्कार्यवादिनः सांख्यस्याऽसत्कार्यवादिनो वैशेषिकादेरभ्युपगमो न समीचीनः, किन्तु सदसत्कार्यवादिनो जनस्याऽभ्युपगम एव ज्यायानित्यावेदयितुं परमतापदर्शनपुरस्सरं तन्मिथ्यात्वमाविकरोति- रत्नादिकारणेविति। तेषामेव रत्नानामेव । अनेन रूपेग रत्नावली. रूपेण । तद रिक्तं रत्नाव्यतिरिक्तम्। सायाभिप्रायमुपदर्य वैशेषिकाद्यभिप्रायमुपदर्शयति- न खल्वित्यादिना- उत्पत्तेः पूर्वमपि कार्य कारणे विद्यत इत्येतत् सांख्यमतं न युक्तमित्यर्थः । नवेति-कारगं कार्यरूपेण परिणमत इति साङ्ख्यविशेषस्य मतमपि न युक्तमित्यर्थः। तहि किमभिमतमायुष्मत इति पृच्छति- किन्त्यिति । उत्तरयति- तत्रेतिकारणे इत्यर्थः। पृथग्भूतमेव कारणाद् भिन्नमेव । द्रव्यैकान्तवादिमतमावेदयति- न कार्य मेति-द्रव्यमात्रमेव, तच्च नित्यमेवेति न कार्यम् कार्याभावे च के प्रति कारणं भवेदिति न किमपि कारणमित्येवमपरे