________________
भनेकान्तव्यवस्थाप्रकरणम् ]
[३११ "लोइयपरिच्छयमूहो, णिच्छयवयणपडिवत्तिमग्गो य । अह पण्णवणाविसओ ति, तेण वीसत्थमुवणीओ।"
सम्मति० का० १, गा० २६] लौकिक परीक्षकाणां- व्युत्पत्तिविकल-तयुक्तप्राणिनाम् । मुख:- सुखप्रतिपत्त्युपायः, निश्चयवचनस्य-एका-ऽनेकात्मकनिश्चयवाक्यस्य, प्रतिपत्तिमार्ग:- प्रामाण्यप्रदर्शकः, 'अथ' इत्यवधारणे, प्रज्ञापनाविषय:-प्रकृतनिदर्शनवाक्यविषयो रत्नावलीदृष्टान्तः, इतितेन कारणेन, विश्वस्तं- निःशङ्कं यथा ज्ञायते तथा, 'ज्ञापयितुम्' इति शेषः, उपनीत:- उपदर्शितः ।। - न चावल्यवस्थातः प्राग उत्तरकाले च रत्नानां नियतोपलम्भात् प्रमाणावस्थायाश्च प्रागुत्तरकालं नयानां तदभावादुदाहरणवैषम्यमिति वाच्यम्, प्रमाणस्यैका-ऽनेकात्मकोपपत्तिमात्रार्भमावल्यवस्थोदाहरणोपादानाद, सर्वथासाम्ये दृष्टान्त-दान्तिकभावानुपपत्तेः ।
उक्ताथै सम्मतिगाथासंवादमाह- तदाहेति। 'लोइय." इति"लौकिक-परीक्षकसुखो निश्चयवचनप्रतिपत्तिमार्गश्च । अथ प्रज्ञापनाविषय इति तेन विश्वस्तमुपनीतः ॥ इति संस्कृतम्। विवृणोतिलौकिकेति । व्युत्पतति - व्युत्पत्तिविकलाः प्राणिनो लौकिकाः. व्युत्पत्ति युक्ताः प्राणिनः परीक्षकास्तेषामित्यर्थः। 'सुख.' इत्यस्य विवरणम्सुखप्रतिपत्त्युपाय इति-लौकिक परीक्षकाणां सुखेन अनायासेन, या दान्तिकस्य प्रतिपत्तिः- ज्ञानम् , तदुपाय:- तन्निमित्तमित्यर्थः। 'निश्रयवचनस्य' इत्यस्य विवरणम्- एकानेकात्मकनिश्चयवाक्यस्येति, एक. मग्रेऽपि ज्ञेयम् ॥
दान्तिकवैषम्यान्नोक्तदृष्टान्तः सङ्गत इत्याशङ्कय प्रतिक्षिपतिन चेति- अस्य 'वाच्यम्' इत्यनेनान्वयः। तदभावात् नियतोपलम्भा.