________________
३१०]
[ तत्त्वबोधिनीविवृतिविभूषितम् जहवृत्त्यैकोपयोगस्य वा प्रमाणशब्दवाच्यत्वाद् विशिष्टनयात्मकसापि प्रमाणचैतन्यस्य शुद्धनयशब्दवाच्यत्वात् ।
नन्यवग्रहादिचतुष्टयात्मकमतिज्ञानोपयोगवत् साकाङ्क्षसकलनय. वाक्यजनितनयप्रमाणात्मकचैतन्यस्याध्यक्षसिद्धत्वात् तत्र रत्नावलीदष्टान्तोपादानं व्यर्थमिति चेत् ? न-एका-ऽनेकात्मकोपयोगे स्वसंवेदनसिद्धेऽपि वादिविप्रतिपत्तिजसंशयनिरासेन निश्चयदााथं तदुपपादनात, तदाहशानसम्बन्धिनी याऽजहबृत्तिस्तया, एकोपयोगस्य निरुक्तनयज्ञानानु. स्यूतदी(कोपयोगस्य प्रमाणशब्दवाच्यत्वात् । विशिष्टनयात्मकस्य पि एकोपयोगत्वविशिष्टसाकाङ्क्षसकलनयवाक्यजनितनयज्ञानरूपस्यापि प्रमाणचैतन्यस्य प्रमाणात्मकचैतन्यस्य। शुद्धनयशब्दवाच्यत्वात् शुद्धनयशब्दाभिधे. यत्वात् , परस्परनिरपेक्षा ये संग्रहादयो नयास्ते मिथ्यादृष्टयोऽशुद्धनय. शब्दव्यपदेश्याः, यत् तुप्रमाणचैतन्यं निरुक्तविशिष्टनयस्वरूपं तच्छुद्ध. नयशब्दव्यपदेश्यमिति सर्वेषां नयानां मिथ्यादृष्टित्वाच्छुद्धनयशब्दवाच्यत्वं नास्त्येवेत्याशङ्का व्यपाकृता भवतीति । आनुमानिकेऽथै दृष्टान्ताभिधानमुचितम्, प्रकृतं तु प्रत्यक्षसिद्धमेवेति तत्र दृष्टान्ताभिधान मनुचितमित्याशङ्कते- नन्विति । 'अवग्रहादि' इत्यादिपदादिहा-ऽवायधारणानां परिग्रहः। तत्र नय-प्रमाणात्मकचैतन्ये । समाधत्ते- नेति । यथा दीर्घोपयोगरूपस्यैकस्य मतिज्ञानस्याऽवग्रहादिचतुष्टयात्मकत्वं तथा क्रमिकपरस्परसाकाङ्कनयवाक्यप्रभवानेकक्रमिकनयात्मकैकप्रमाणोपयोगस्वरूपचैतन्यस्य स्वसंवेदनसिद्धत्वेऽपि एकान्ताभिनिवेश. लक्षणकदाग्रहशालिनस्तत्र विप्रतिपद्यन्ते वादिन इति तद्विप्रतिपत्ति तश्चैतन्यमेकाऽनेकस्वरूपं भवति नवेति संशयो भवति, तन्निरासेनेक चैतन्यं क्रमिकनयप्रमाणात्मकमिति निश्चयो रत्नावलीदृष्टान्तत एव सुदृढो भविष्यतीत्येतदर्थ रत्नावलीदृष्टान्तोपपादनमित्याह- एका-ऽनेका. त्मकोपयोगे इति । तदुपपादनात् रत्नावलीदृष्टान्तोपपादनात् ।