________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ ३०९ तद्वाचकः शब्दो येषां ते तथा, सम्यग्दर्शनं 'प्रमाणम्' इत्याख्या लभन्ते, न विशेषसंज्ञाः पृथग्भूताभिधानानि, अजहद्वृत्त्यैकोपयोगत्वविशिष्टसाकाससकलनयवाक्यजनितनयज्ञानानां तादृशनयज्ञानीयाच 'यथानुरूपः' इत्यस्य यद् यद् अनुरूपं तत्र तत्रेत्यर्थः। तथा यथानुरूपविनियुक्तवक्तव्याः। 'विशेषसंज्ञाः' इत्यस्य 'पृथग्भूताभिधानानि' इति विवरणम् ॥ यथा एकसूत्राग्रथितानां रत्नानां न रत्नावलीशब्दवाच्यत्वं तथाऽन्योन्यनिरपेक्षाणां स्वस्वविषयपरिच्छेदकत्वेन व्यवस्थितानां नयवादानां न सम्यग्दर्शनशब्दवाच्यत्वं न प्रमाणशब्दवाच्यत्वम् , यथा पुनस्तेषामेव रत्नानां यथागुणविशेषपरिपाटयैकसूत्रग्रथितानां नैकैकप्रतिनियतस्वस्ववाचकशब्दवाच्यत्वं किन्तु रत्नाघलीत्येकशब्दव्यपदेश्यत्वम् , तथाऽशेषाणामपि सङ्ग्रहादिनयवादानां परस्परसापेक्षाणामेतदपेक्षया द्रव्यरूपत्वमेतदपेक्षाया पर्यायरूपत्व. मित्येवं स्वस्वविषयप्रतिबद्धानां न प्रत्येकसंग्रहादिनयप्रतिपादकसंग्रहादिप्रतिनियतशब्दवाच्यत्वं किन्तु सम्यग्दर्शनापरपर्यायप्रमाणशब्दवाच्यत्वम् , यथा चानेकेषां रत्नानां रत्नावलीत्येकसंज्ञाभिधेयत्वं तथा चानेकेषां नयानामेकप्रमाणशब्दाभिधेयत्वम् , तत्र कथम्भावाकाङ्कानिवृत्तयेत्याह- अजहवृत्त्यकोपयोगत्वेति- प्रमाणशब्दस्यानन्तधर्मात्मकवस्तुविषयककोपयोगे रूढस्याप्येकोपयोगत्वविशिष्टेषु साकाङ्कसकलनयवाक्यजनितनयज्ञानेषु याऽजहल्लक्षणाख्या वृत्तिस्तया, अस्य 'प्रमाणशब्दवाव्यत्वाद्' इत्यनेनान्वयः, यथा रत्नानां सन्निवेशविशेषविशिष्टानामेकरत्नावलीत्वधर्मविशिष्टत्वं तथा साकाङ्क्षसकलनयवाक्यजनितनयज्ञानानामप्येकोपयोगत्वविशिष्टत्वम् , क्रमिकनयवाक्यजनित नयज्ञानानामनुस्यूतकदीर्घोपयोगस्वरूपत्वस्यावग्रहादिज्ञानवतुष्टयेषु दीधैंकमतिज्ञानोपयोगरूपत्वस्येव सम्भवात्, एवं चकोपयोगत्वविशिष्टानि यानि साकाङ्कलकलनयवाक्यजनितनयज्ञानानि तेषां प्रमाणशब्दवाच्यत्वात् । वा अथवा, तादृश नय ज्ञानीया साकाङ्कसकलनयवाक्यजनितनय