SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ३०८ ] [ तत्त्वबोधिनीविवृतिविभूषितम् यथा पुनस्त एव मणयो यथागुणविशेषपरिपाट्या प्रतिबद्धा रत्नावलीति भण्यन्ते, प्रत्येकाभिधानानि च त्यजन्ति, रत्नानुविद्धतया रत्नावल्यास्तदनुविद्धतया च रत्नानां प्रतीतेः, रत्नीयसनिवेशविशेषस्य तद्विशिष्टरत्नानां वा रत्नावलीशब्दवाच्यत्वाद् विशिष्टानामविशिष्टवाचकशब्दाऽवाच्यत्वाद्, विशिष्टाऽविशिष्टयोः कथञ्चिद्भेदस्य प्रातीतिकत्वात् ।। "तह सव्वे गयवाया, जहाणुरूवविणिउत्तवत्तव्वा । सम्मइंसणसई, लहंति ण विसेससण्णाओ॥" [सम्मति० का० १, गा० २५] तथा सर्वे नयवादा यथानुरूपविनियुक्तवक्तव्याः, 'यथा' इति वीप्सार्थे, यद् यदनुरूपं तत्र तत्र विनियुक्तं वक्तव्यमुपचाराद भागप्रतिबद्धाः। रत्नावलीति भण्यन्ते जहति प्रत्येक संज्ञाः" ॥ इति संस्कृतम् । मणीनां 'रत्नावली' इति व्यपदेशे स्वाभिधानापरित्यागे च हेतुमुपदर्शयति- रत्नानुविद्धतयेति- रत्नानुविद्धतया रत्नावल्याः प्रतीतेरित्यन्वयः। तदनुविद्धतया च रत्नावल्यनुविद्धतया च । रत्नीयसन्निवेशविशेषस्य रत्नावलीशब्दवाच्यत्वादित्यन्वयः। तद्विशिष्टेति- सन्निवेशविशेषविशिष्टेत्यर्थः। ननु विशिष्ट शुद्धयोरनतिरिक्तत्वाद् विशिष्टरत्नस्य रत्नावलीशब्दवाच्यत्वे शुद्धस्यापि रत्नस्य रत्नावलोशब्दवाच्यत्वं प्रसज्येतेत्यत आह- विशिष्टानामिति- सन्निवेशविशेषविशिष्टरत्नानामित्यर्थः। अविशिष्टेति- शुद्धरत्नवाचकरत्नशब्दाऽवाच्यत्वादित्यर्थः। रत्नावलीदृष्टान्तमुपपाद्य दान्तिकं नय-प्रमाणात्मकैकचैतन्यमुपपाद. यति- “ तह सव्वे" इति। पूर्वार्धस्य संस्कृतमुल्लिखनि- तथेति । उत्तरार्द्धस्य : सम्यग्दर्शनशब्दं लभन्ते न विशेषसंज्ञाः" ॥ इति संस्कृतम् । स्थानुरूपेत्यादेविवरणमाह- 'यथा' इति वीप्सार्थ इति। तथा
SR No.022426
Book TitleAnekant Vyavastha Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1952
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy