________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ ३०७ यथाऽनेकप्रकारा:-विषघातहेतुत्वादीनि लक्षणानि, नीलत्वादयश्च गुणा येषां ते वैडूर्यादयो मणयः पृथग्भूता रत्नावलीव्यपदेशं न लभन्ते महार्थमूल्या अपि॥
"तह णिययवायसुविणिच्छिया वि अण्णुण्णएक्खणिरवेक्खा। सम्मइंसणसई, सव्वे वि णया ण पाविति ॥"
सम्मति० का० १, गा० २३] तथा प्रमाणावस्थायाम, इतरसव्यपेक्षस्व विषयपरिच्छेदकाले वा स्वविषयपरिच्छेदकत्वेन सुविनिश्चिता - अप्यन्योन्यनिरपेक्षाः 'प्रमाणम्' इत्याख्यां सर्वेऽपि नया न प्राप्नुवन्ति, निजे वा निरपेक्षसामान्यादिवादे, सुविनिश्चिता अपि-हेतुप्रदर्शनकुशला अपि, अन्योऽन्यपक्षनिरपेक्षत्वात् सम्यग्दर्शनशब्दं 'सुनयां' इत्येवंरूपम् , सर्वेऽपि-सङ्ग्रहादयो नया न प्राप्नुवन्ति ॥
"जह पुण ते चेव मणी, जहागुणविसेसभागपडिबद्धा। रयणावलि त्ति भण्णइ, जहेति पाडेकसण्णाओ।"
[सम्मति० काण्ड० १, गा० २४] - "जह०" इति- “यथाऽनेकलक्षण-गुणा वैडूर्यादयो, मणयो विसंयुकाः। रत्नावलीव्यपदेशं न लभन्ते महार्घमूल्या अपि", इति संस्कृतम् । विवृणोति- यथेत्यादिना, स्पष्टम् ॥
. "तह" इति- "तथा नियत[निजक]वादसुविनिश्चिता अपि अन्योऽन्यपक्षनिरपेक्षाः। सम्यग्दर्शनशब्दं सर्वेऽपि नया न प्राप्नु. चन्ति" ॥ इति संस्कृतम्। विवृणोति- तथेत्यादिना । व्याख्यान्तर माह- निजे वेति ।
“जह पुण•" इति- “यथा पुनस्त एव मणयो यथागुणविशेष