________________
३०६ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् क्रमिकनयवाक्यार्थज्ञानजन्यमहावाक्यार्थज्ञानरूपप्रमाणात्मकैकाध्य. वसायोपपत्तिरिति वाच्यम् , न्यायवाक्यस्थलेऽपि प्रतीत्यसमुत्पादे नैकैकजनितखण्डवाक्यार्थज्ञानसमुदायस्यैव महावाक्यार्थज्ञानत्वे नास्माभिरभ्युपगमात् , शबलाध्यवसायान्यथानुपपत्त्या परमतस्या युक्तत्वात् , अन्यथाऽङ्गुलिद्वयसंयोगस्थानीयोभयवादारम्भप्रसङ्गाच किञ्च, इयं कल्पना रत्नावलीदृष्टान्तेन नय-प्रमाणात्मकैकचैतन्योप पादकसम्मतिवचनविरुद्धत्वादेवानुपादेया, एवं हि तत्
"जहऽणेगलक्खण-गुणा, वेरुलियाई मणी विसंजुत्ता । रयणावलिववएस, ण लहंति महग्ध त्थामुल्ला वि॥"
सम्मति० का० १, गा० २२ 'न च' इत्यस्य वाच्यम्' इत्यनेनान्वयः। परेषां नैयायिकादीनाम् । अवयवेति- प्रतिज्ञाद्यवयवेत्यर्थः। न्यायवाक्येति- प्रतिज्ञाद्यवयवपञ्चकात्मकमहावाक्यलक्षणन्यायवाक्येत्यर्थः। अस्नाकमपि जैनानामपि । प्रत्येकमवयववाक्यार्थज्ञानपञ्चभ्यो महावाक्यस्वरूपन्यायवाक्यार्थज्ञानमुपजायत इति नास्माभिरुपेयते, किन्तु पूर्वपूर्वावयववाक्यार्थज्ञान प्रतीत्योत्तरोत्तरावयववाक्यार्थज्ञानमुपजायत इत्येवं पूर्वापरभावेनोपजायमानखण्डवाक्यार्थशान समुदायस्यैव महावाक्यार्थज्ञानत्वेन जैन रभ्युपगमादिति निषेधहेतुमुपदर्शयति- न्यायवाक्यस्थलेऽपीति- अपिना नयवाक्यस्थले क्रमिकनयवाक्यार्थज्ञानसमुदायस्यैव प्रमाणात्मकत्वम्, न तु समूहालम्बनात्मकैकज्ञानस्य प्रमाणत्वमित्यस्याऽऽनेडनम् । एवमेव शबलाध्यवसायसम्भवो नान्यथेत्यतोऽतिरिक्तमहावाक्यार्थज्ञानपरस्य न्यायमतस्यायुक्तत्वादित्याह- शबलेति । अन्यथा सकलनयार्थविषयकसमूहालम्बनात्मकैकप्रमाणशानाभ्युपगमे।सम्मतिवचनविरोधादपि नोक्तकल्पना भद्रेत्याह- किञ्चति । 'इयं कल्पना' इत्यस्य 'अनुपादेया' इत्यनेनान्वयः। तत् सम्मतिवचनम् ।