________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ ३०५ द्रव्यार्थिक-पर्यायार्थिकाभ्यामत्यन्तपृथग्भूताभ्यामॉलिद्वयसंयोगवदुभयवादोऽपरः प्रारब्धः" इत्याहुः॥
अत्रेदं मनाग् मीमांसामहे- ननु विशिष्टैकाध्यवसायस्य समुदायार्थत्वे द्वित्वविशिष्टावग्रहादिजनितघट-पटोभयसमूहालम्बनवत् सकलनयार्थसमूहालम्बनमेकं प्रमाणज्ञानं प्राप्नोति, तच्चायुक्तम्क्रमिकनयवाक्यैः समूहालम्बनैकप्रमाणज्ञानजननाऽयोगात् , सकलनयार्थवाचकस्य च वाक्यस्याप्येकस्य सप्तभङ्गया निषेत्स्यमानत्वात्। न च परेषाभवयववाश्यार्थज्ञानजन्यन्यायवाक्यार्थज्ञानवदस्माकमपि ध्यवसायात्मकसमुदायस्वरूपार्थ एव । उक्तार्थ एव प्रतिपादित इति कथमवगम्यते ? इत्यपेक्षायामाह- नहीति- अस्य 'प्रारब्धः' इत्यनेनान्वयः। आहुनिति-'सम्मतिवृत्तिकृतः' इत्यनेनान्वितम्, अन्यत् स्पष्टम्।
प्रकृतविषये ग्रन्थकृत् स्वाभिप्रायमाविर्भावयति- अत्रेतिप्रस्तुतविचार इत्यर्थः । इदं 'ननु०' इत्यादिनाऽनन्तरमेवाभिधीयमानम्। मनाक् किश्चित् । मीमांसामहे विचारयामः। 'द्वित्वविशिष्टावग्रहादि०' इत्यादिपदाद् घटत्वविशिष्टावग्रह-पटत्वविशिष्टावग्रहयोरुपसंग्रहः । सकलनयार्थविषयकैकसमूहालम्बनज्ञाने सम्भवति सत्येव तस्य प्रामाण्यं स्यात् , तदेव तु न सम्भवतीत्याह- ऋमिति- क्रमिक नयवाक्यः क्रमिकाणामेव तत्तद्वाक्यार्थज्ञानानामुदयः, तत्तद्वाक्यार्थज्ञानं प्रत्येव तत्तद्वाक्यानां कारणत्वात् , सकलनयार्थविषयक समूहालम्बनशानं प्रति प्रत्येकं तत्तन्नयवाक्यानां कारणत्वाभावेन तैरुक्तसमूहालम्बनज्ञानासम्भवात् । नन्वेकवाक्यमेव तथाविधं भवेत्, येन सकलनयार्थविषयकसमूहालम्बनज्ञानोत्पत्तिः स्यादित्यत आहसकलनयार्थवाचकस्येति- सकलनयार्थबोधकस्येत्यर्थः, यदीदृशं किश्चिद् पाक्यं भवेत् तोकेन तेन सकलनयार्थप्रतिपत्तिसम्भवे सप्तभङ्गयुपासनमेवानर्थकमापद्यतेत्युपास्यमानया सप्तभङ्गया सकलनयार्थप्रतिपादकस्यैकस्य वाक्यस्यात्रैव ग्रन्थेऽग्रे निषेत्स्यमानत्वादित्यर्थः ।